वाचस्पत्यम्
विशल्यकृत् || पु० विशल्यं तत्प्रहारवेदनानिवृत्तिं करोति कृ—किप् । (हापरमाली) १ वृक्षे रत्नमा० । २ विशल्य- कारके त्रि० ।
शब्दकल्पद्रुमः
विशल्यकृत् || पुं, (विशल्यं तत्प्रहारजन्यवेदनादि- नाशं करोतीति । कृ + क्विप् ।)
विशालीवृक्षः । हापरमालीति ख्यातः । तत्पर्य्यायः । अक्षो- डकः २ सुकल्कः ३ भूपलाशः ४ । इति रत्न- माला ॥ आस्फोतः ५ आचरत्प्रियः ६ । इति शब्दचन्द्रिका । विशल्यकारिणि त्रि ॥