वाचस्पत्यम्
विशसन || न० वि + शस—हिंसने ल्युट् । १ मारणे अमरः । करणे ल्युट् । २ खड्गे पु० त्रिका० “असिर्विशसनः खड्गः” खगड्पूजामन्त्रः ।
शब्दकल्पद्रुमः
विशसनं || क्ली (वि + शस हिंसायाम् + ल्युट् ।)
मारणम् । इत्यमरः ॥ (यथा, हरिवंशे । ९९ । ४३ । “तस्मिन् विशसने घोरे चक्रलाङ्गलसंप्लवे । दारुणानि प्रवृत्तानि रक्षांस्यौत्पातिकानि च ॥” नरकविशेषः । यथा, भागवते । ५ । २६ । ७ । “प्राणरोधो विशसनं लालाभक्षः सारमेयादन- मरीचिरयःपानमिति ॥” * ॥
विनाशकारिणि, त्रि । यथा, महाभारते । ६ । ५९ । ६० । “यमदण्डोपमां गुर्व्वीमिन्द्राशनिसमस्वनाम् । अपश्याम महाराज रौद्रीं विशसनीं गदाम् ॥”)
शब्दकल्पद्रुमः
विशसनः || पुं, (विशसति हिनस्तीति । वि + शस हिंसायाम् + ल्युः ।)
खड्गः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । १२ । १६६ । ८३ — ८४ । “असेरष्टौ हि नामानि रहस्यानि निबोध मे । पाण्डवेय सदा यानि कीर्त्तयन् लभते जयम् ॥ असिर्व्विशसनः खड्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्म्मपालस्तथैव च ॥”)