संस्कृत-शब्दकोशः

विशस्त विशाकर

विशस्तृ

वाचस्पत्यम्

विशस्तृ ||‍ पु० वि + शस—तृच् न इट् । चण्डाले संक्षिप्त० ।


शब्दकल्पद्रुमः

विशस्ता || [ऋ] पुं, (वि + शस हिंसायाम् + तृच् ।)
चाण्डालः । इति संक्षिप्तसारोणादि- वृत्तिः ॥ (हिंसाकारके, त्रि । यथा, महा- भारते । १२ । ११५ । ४९ । “आहर्त्ता चानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्त्ता चोपभोक्ता च खादकः सर्व्व एव ते ॥” पापिन इति शेषः ॥)



Correction: