वाचस्पत्यम्
विशारद || पु० विशालं ददाति दा—क लस्य रः । १ बकुलवृक्षे २ क्षुद्रदुरालभायां स्त्री राजनि० । ३ पण्डिते पु० ४ प्रगल्भं त्रि० अमरः ५ श्रेष्ठे च त्रि० अजयः ।
शब्दकल्पद्रुमः
विशारदः || त्रि विद्वान् । (यथा, मनुः । ७ । ६३ । “दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ॥”)
प्रगल्भः । इत्यमरः ॥ प्रसिद्धः । इति हारा- वली ॥ श्रेष्ठः । इत्यजयपालः ॥ वकुले, पुं । इति राजनिर्घण्टः ॥