शब्दकल्पद्रुमः
विशाला || स्त्री (विशाल + टाप् ।)
इन्द्रवारुणी । इत्यमरः ॥ यथाच । “विशाला कफवातघ्नी हेमकुष्ठहरा सरा ॥” इति राजवल्लभः ॥ उज्जयनी । इति मेदिनी ॥ उपोदकी । महेन्द्र- वारुणी । इति राजनिर्घण्टः ॥ (यथा, —
“ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी । वारुणी च गवाप्युक्ता सा विशाला महाफला । श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तीर्थविशेषः । यथा, —
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः । वर्ज्जयित्वा गयां गङ्गां विशालां विरजां तथा ॥” इति प्रायश्चित्ततत्त्वम् ॥ दक्षकन्या । यथा, —
“मनोरमां भानुमतीं विशालां बाहुदामथ । दक्षः प्रादान्महादेव चतस्रोऽरिष्टनेमिने ॥” इति गारुडे ६ अध्यायः ॥