संस्कृत-शब्दकोशः

विशाला विशालाक्षी

विशालाक्ष

वाचस्पत्यम्

विशालाक्ष ||‍ पु० विशाले अक्षिणी यस्य षच्समा० । १ महादेवे, २ गरुडे, ३ विष्णौ च ४ वृहन्नेत्रे, त्रि० मेदि० । ५ पार्वत्यां ६ नागदन्त्यां च स्त्री राजनि० ङीष् । ७ वरस्त्रियां स्त्री विश्वः । ८ योगिनीभेदे स्त्री ।


शब्दकल्पद्रुमः

विशालाक्षः || पुं, (विशाले अक्षिणी यस्य । समासे षच् ।)
हरः । (यथा, महाभारते । १२ । ५९ । ८० । “ततस्तां भगवान्नीतिं पूर्ब्बं जग्राह शङ्करः । बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥”)
गरुडः । (तद्वंशीयविशेषः । यथा, महा- भारते । ५ । १०१ । ९ । “अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥”)
सुनेत्रे, त्रि । इति मेदिनी ॥ (यथा, महा- भारते । ३ । ३९ । ७० । “ददामि ते विशालाक्ष चक्षुः पूर्ब्बऋषि- र्भवान् ॥”)
विष्णुः । इति केचित् ॥ (धृतराष्ट्रपुत्त्रः । यथा, महाभारते । १ । ११७ । ९ । “अपराजितः कुण्डशायी विशालाक्षो दुरा- धरः ॥”)



Correction: