वाचस्पत्यम्
विशिष्टवैशिष्ट्यज्ञान || ६ त० । विशेषणंविशिष्टे वैशिष्ट्यस्य संसर्गस्य ज्ञाने यथा रूपवान् घट इत्यादि ज्ञानं तत्र घटत्वविशिष्टे रूपादेः संसर्गस्य भानम् । तच्च द्विविधम् विशेषणोपलक्षितप्रतियोगिकवैशिष्ट्यावगाहि विशेषणवि- शिष्टप्रतियोगिकवैशिष्ट्यावगाहि च । आद्ये विशेषण- ज्ञानासंसर्गयोः कारणता द्वितीये तु विशेषणतावच्छेदक- प्रकारकविशेषणज्ञानस्य कारणता । यथाकारणं च तयो- र्योधवैलक्षण्यम् । तत्र क्वचित् विशेष्ये यद्विशेषणं तत्रापि विशेषणान्तरमिति रीत्या ज्ञानं जायते यथा दण्डवान् पुरुष इति ज्ञानम् अत्र ज्ञाने पुरुषांशे दण्डो दण्डांशे दण्डत्वं विशेषणतया भासते । तत्र विशृङ्खलोपस्थितिः प्रयोजिका । क्वचिदेकत्र द्वयमिति रीत्या बोधः । यथा दण्डवान् पुरुष इति ज्ञानम् अत्र च ज्ञाने एकस्यांव्यक्तौ पुरुषे पुरुषत्वं दण्डश्चेत्युभयं विशेषणतया भासते नतु विशेषणविशेषणतावच्छेदकभावेन । क्वचित् विशिष्ट- वैशिष्ट्यावगाहि ज्ञानं भवति यथा दण्डवान् पुरुष इति ज्ञानमत्र च ज्ञाने विशेषणतावच्छेदकप्रकारकं विशेषणज्ञानं कारणम । तत्र दण्डरूपविशेषणावच्छिन्न्प्रतियोगिक- वैशिष्ट्यरूपः संसर्गः पुरुषांशे संसर्गतया भासते । अतएव विशेषणविशिष्टसंसर्गावगाहि तदिति उपलक्षितज्ञानात् विशेषः । क्वचिच्च विशिष्टज्ञानं यथा अयं दण्डीति ज्ञानम् अत्र च ज्ञाने इदमर्थे विशेष्ये दण्डात्मक- विशेषणप्रतियोगिकः संसर्गः संसर्गतया मासते उपलक्षणे तु न तत्प्रतियोगिकतया संसर्गस्य भानमिति भेदः । विशिष्टवैशिष्ट्यशाब्दबोधे त्वयं भेदः व्युत्पत्तिवैचित्र्येण उद्देश्यतावच्छेकविधेयतावच्छेकयीः पारतन्त्र्येण परस्परं प्रयोज्यप्रयोजकभावेनान्वयः । यथा धनवान् सुखीत्यत्र वनप्रयोज्यत्वस्य सुखे, सुरापः पततीत्यत्र सुरापानस्य पतने प्रयोज्यत्वस्यान्वयः ।