शब्दकल्पद्रुमः
विशिष्टाद्वैतवादी || [न्] त्रि, (विशिष्टं युक्तं अद्वैतं वदतीति । वद् + णिनिः ।)
प्रकृति- पुरुषयोर्भिन्नत्वेऽपि मिलितयोस्तयोर्ब्रह्मत्ववादी । तस्य मतं यथा । पुरुषस्तदतिरिक्ता प्रकृतिः किन्तूभयमिलितं ब्रह्म चणकद्विदलवत् । इत्थं ब्रह्मण एकत्वं व्यवस्थितम् । चित् परमाणु- स्वरूपो जीवः समस्तविश्वं ब्रह्मांशः । इति माधवभाष्यादिः ॥ * ॥
अद्वैतवादिमतं यथा । ब्रह्मैव सत्यं प्रत्यक्षादिसिद्धं विश्वं ब्रह्मणि आरो पितम् । यथा रज्जुः रज्जुस्वरूपाज्ञानात् सर्पवत् प्रतिभाति । तथा ब्रह्मस्वरूपाज्ञानात् विश्वं वस्तुवत् प्रतिभाति । प्रकृतिर्जीवश्चापि पर्य्यवसाने ब्रह्मैव ब्रह्मान्यत् सद्वस्तु नास्ति । अत्र प्रमाणं शारीरिकसूत्रस्य शङ्कराचार्य्य- कृतभाष्यतट्टीकाकल्पतरुभाष्यरत्नप्रभादि ॥