वाचस्पत्यम्
विशुद्ध || त्रि० वि + शुध—क्त । १ दोषरहिते, २ विशदे च । तन्त्रोक्ते कण्ठस्थे ३ चक्रभेदे चक्रशब्दे २८०८ पृ० दृश्यम
शब्दकल्पद्रुमः
विशुद्धं || त्रि विशेषेण शुद्धम् । तत्पर्य्यायः । उज्ज्व- लम् २ विमलम् ३ विशदम् ४ वीध्रम् ५ अव- दातम् ६ अनाविलम् ७ शुचिः ८ । इति हेम- चन्द्रः ॥ निभृतम् । सत्यम् । इत्यजयपालः ॥ षट्चक्रान्तर्गतपञ्चमचक्रम् । तत्तु कण्ठस्थं अका- रादिषोडशस्वरयुक्तधूम्रवर्णषोडशदलपद्मम् । तन्मध्ये शिव आकाशश्चास्ति । यथा, —
“तदूर्द्धन्तु विशुद्धाख्यं दलषोडशपङ्कजम् । स्वरैश्च षोडशैर्युक्तं धूम्रवर्णैर्महत्प्रभम् । विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम् ॥” इति तन्त्रम् ॥ अगस्त्यसंहितायाम् । अकारादिषोडशस्वरान् सबिन्दून् षोडशदलकपले कण्ठमूले न्यसेत् । विशुद्धे षोडशदले धूम्राभे स्वरभूषिते । इति तन्त्रसारः ॥