संस्कृत-शब्दकोशः

विशृङ्खल विशेषक

विशेष

वाचस्पत्यम्

विशेष ||‍ पु० वि + शिष—घञ् । १ प्रभेदे, २ प्रकारे, जटा० । ३ व्यक्तौ हेमच० । ४ तिलके, हारा० । “अन्त्योनित्यद्रव्यवृत्तिर्कि शेषः परिकीर्त्तित” इति भाषा० उक्ते ५ पदार्थभेदे “अन्ते अवसाने तिष्ठतीति अन्त्यः यदपेक्षया विशेषो नास्तीत्यर्थः । घटपटादीनां द्व्यणुकपर्य्यन्तानां तत्त- दवयवभेदात् परस्परं भेदः । परमाणूनां भेदको वि- शेष एव स तु स्वत एव व्यावृत्तः तेन तत्र विशेषात्नरा- पेक्षा नास्तीति” सि० मुक्ता० । अयञ्च नित्यद्रव्ये समवायेन तिष्ठति “तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” भाषायां चकारेण नित्यद्रव्येषु विशेषसम्बन्धस्य समवायतायाः ग्रहणात् । “द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदा- र्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानानिःश्रेयसम्” कणा० सू० उद्दिश्य लक्षितं यथा “अन्यत्रान्त्येभ्यो विशेषेभ्यः” सू० । “अन्त्या विशेषा नित्यद्रव्यवृत्तयो येऽभि- हितास्तान् वर्जयित्वा सामान्यविशेषाभिधानमित्यर्थः । अन्ते अवमाने भवन्तीत्यन्त्याः यतो न व्यावर्त्तकान्तरमस्ती त्याचार्य्याः उत्पादविनाशयोरन्तेऽवसाने भवन्तीत्यन्त्यानि नित्यद्रव्याणि तेषु भवन्तीत्यन्त्या विशेषाः इति वृत्तिकृतः ते हि विशेषा एव व्यावृत्तबुद्धिहेतवः न तु सामान्य- रूपा अपि” उप० वृ० । नित्यैकमात्रवृत्तय इति फलि- तार्थः । “अन्योन्याभावविरोधिसामान्यरहितः समवेतो विशेषः” सर्व० औ० माधवः । ६ व्याप्यधर्मे । यथा नीलघटः इत्यादौ घटत्वव्याप्यधर्मः नीलत्वादिविशिष्टष्टत्वादिः । ७ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०५ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

विशेषः || पुं, (वि + शिष + घञ् ।)
प्रभेदः । (यथा, मनुः । ९ । २६ । “प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥”)
प्रकारः । इति जटाधरः ॥ व्यक्तिः । इति हेम- चन्द्रः ॥ तिलकः । इति हारावली ॥ सप्त- पदार्थान्तर्गतपदार्थविशेषः । यथा, —
“द्रव्यं गुणास्तथा कर्म्म सामान्यं सविशेषकम् । समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥” इति भाषापरिच्छेदः ॥ विशेषं निरूपयति । अन्त्यो नित्यद्रव्यवृत्ति- र्विशेषः परिकीर्त्तितः । अन्तेऽवसाने वर्त्तते इति अन्त्यः यदपेक्षया विशेषो नास्तीत्यर्थः । घटपटादीनां द्ब्यणुकपर्य्यन्तानां तत्तदवयवभेदात् परस्परभेदः । परमाणूनां भेदको विशेष एव स तु स्वत एव व्यावृत्तः । तेन तत्र विशेषान्तरा- पेक्षा नास्ति इत्यर्थः । इति सिद्धान्तमुक्ता- वली ॥ * ॥
अलङ्कारप्रभेदः । यथा, —
“विशेषः ख्यातमाधारं विनाप्याषेयवर्णनम् । गते सूर्य्येऽपि द्बीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ १ विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात् सर्व्वदिश्यपि सैव मे ॥ २ ॥ किञ्चिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः । त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥” ३ इति चन्द्रालोकः ॥ (पृथिवी । यथा, भागवते । २ । ५ । २९ । “विशेषस्तु विकुर्व्वाणादम्भसो गन्धवानभूत् ॥” तथाच तत्रैव । ३ । ११ । ४० । “विकारैः सहितो युक्तैर्विशेषादिभिरावृतः ॥” अतिशयिते, त्रि । यथा, रघुः । २ । १४ । “शशाम वृष्ट्यापि विना दवाग्नि- रासीद्विशेषा फलपुष्पवृद्धिः ॥”)



Correction: