वाचस्पत्यम्
विशेषोक्ति || स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०५ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विशेषोक्तिः || स्त्री (विशेषेणोक्तिः ।)
अलङ्कार- भेदः । तल्लक्षणोदाहरणे यथा, —
“कार्य्याजनिर्व्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥” इति चन्द्रालोकः ॥