संस्कृत-शब्दकोशः

विशोक विशोधिनी

विशोधनी

वाचस्पत्यम्

विशोधनी ||‍ स्त्री विशुध्यतेऽनया शुध—ल्युट् ङीप् । १ दन्ती- वृक्षे राजनि० । भावे ल्युट् । २ शोधने न० । वि + शुध—ल्यु । २ शोधनकारके त्रि० । “प्रायश्चित्तं विशोधनम्” स्मृतिः ।


शब्दकल्पद्रुमः

विशोधनी || स्त्री (विशोध्यतेऽनयेति । वि + शुध + ल्युट् । ङीष् ।)
दन्तीवृक्षः । इति राज- निर्घण्टः ॥



Correction: