वाचस्पत्यम्
विशोक || पु० विगतः शोकः यस्मात् यस्य वा । १ अशोकवृक्षे राजनि० । २ शोकरहिते त्रि० । योगशास्त्रोक्ते ३ चित्त- वृत्तिभेदे स्त्री । “विशोका वा ज्योतिष्मती” पात० सू० । “विशोका विविधविषवतीति” विवरणम् ।
शब्दकल्पद्रुमः
विशोकः || पुं, (विगतः शोको यस्मात् ।)
अशोक- वृक्षः । इति राजनिर्घण्टः ॥ (शोकाभावः । यथा, भागवते । १ । १० । ७ । “उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदाञ्च विशोकाय स्वसुश्च प्रियकाम्यया ॥” युधिष्ठिरस्यानुचरविशेषः । यथा, महाभारते । २ । ३३ । ३० । “इन्द्रसेनो विशोकश्च पुरुश्चार्ज्जुनसारथिः ॥”)
शोकरहिते, त्रि ॥ (यथा, भागवते । १ । १९ । २१ । “लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥” स्त्री, संप्रज्ञानसमाधेः पूर्व्वकालीना चित्तवृत्तिः । यथा, पातञ्जले । १ । ३६ । “विशोका वा ज्योतिष्मती ॥”)