संस्कृत-शब्दकोशः

विशोधिन् विश्न

विश्

शब्दकल्पद्रुमः

विट् || [श्] पुं, (विश् + क्विप् ।)
वैश्यः । (यथा, मनुः । २ । ३६ । “गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्बादशे विशः ॥”)
मनुजः । इत्यमरः ॥ (यथा, रघुः । १ । ९३ । “अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक् स्रष्टुः विससर्जोदितश्रियम् ॥”)
प्रवेशः । इति विश्वः ॥


शब्दकल्पद्रुमः

विड् || [श्] पुं, (विशतीति । विश + क्विप् ।)
वैश्यः । यथा विट् विड् विशौ विशः । इति मुग्धबोधव्याकरणम् ॥ (मनुजः । विशांपति- शब्ददर्शनात् ॥)



Correction: