संस्कृत-शब्दकोशः

विश्रब्ध विश्रम

विश्रब्धनवोढा

शब्दकल्पद्रुमः

विश्रब्धनवोढा || स्त्री (विश्रब्धा विश्वस्ता नवोढा ।)
मुग्धानवोढाभेदः । यथा । स्वीया त्रिविधा मुग्धा मध्या प्रगल्भा च । यथा अङ्कुरित- यौवना मुग्धा । सा च ज्ञातयौवना अज्ञात- यौवना च । सैव क्रमशो लज्जाभयपराधीन- रतिर्नवोढा । सैव क्रमशो जातप्रश्रया विश्रब्ध- नवोढा । अस्याश्चेष्टा क्रिया मनोहरा कोपे मार्दवं नवविभूषणे समीहा च । विश्रब्धनवोढा यथा, —
“दरमुकुलितनेत्रपाणिनीवी- नियमितबाहुकृतोरुयुग्मबन्धम् । करकलितकुचस्थलं नवोढा स्वपिति समीपमुपेत्य कस्य यूनः ॥” इति रसमञ्जरी ॥



Correction: