शब्दकल्पद्रुमः
विश्रान्तिः || स्त्री विश्रामः । विपूर्व्वश्रमधातोः क्तिप्रत्ययेन निष्पन्नमिदम् । (यथा, रामायणे । २ । २ । ८ । “जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥”)
तीर्थविशेषः । यथा, — राक्षस उवाच । “पुरी उज्जयनी नाम तस्यां वासो हि मे सदा । कस्मिंश्चिदथ कालेन गतोऽहं विष्णुमन्दिरम् ॥ तस्याग्रे तिष्ठते विप्रो वाचको वेदपारगः । विश्रान्तितीर्थमाहात्म्यं श्रावयेत् स दिने दिने ॥ यस्य श्रवणमात्रेण मम भक्तिर्हृदि स्थिता । सा संज्ञा च श्रुता तत्र विश्रान्तेश्च मयानघ ॥ वासुदेवो महाबाहुर्जगत्स्वामी जनार्द्दनः । विश्रामं कुरुते तत्र तेन विश्रान्तिसंज्ञिका ॥” इति वाराहे विश्रान्तिमाहात्म्यनामाध्यायः ॥