शब्दकल्पद्रुमः
विश्वक्शेनः || पुं, विष्णुः । इत्यमरटीकायां भरतः ॥ त्रयोदशमनुः । यथा, —
“मनुर्भूतेः सुतस्तद्बत् भौत्यो नाम भविष्यति । ततस्तु मेरुसावर्णब्रह्मसूनुर्मनुः स्मृतः ॥ ऋतुश्च ऋतुधामा च विश्वक्शेनो मनुस्तया ॥ अतीतानागताश्चैते मनवः परिकीर्त्तिताः ॥” इति मात्स्ये ९ अध्यायः ॥ * ॥
विष्णोर्निर्म्माल्यधारिदेवता । यथा, —
“निर्म्माल्यधारी विष्णोस्तु विश्वक्शेनश्चतुर्भुजः । शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः ॥ रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः । प-तृतीयस्वरान्तेन संयुतो बिन्दुनेन्दुना ॥ कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् । विसर्ज्जनं तथा विष्णोरैशान्यां परिकल्पयेत् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ (क्वचित् विश्वक्सेन इति पाठोऽपि दृश्यते ॥)