वाचस्पत्यम्
विश्व(ष्व)क्सेन || विशु(षु)ची सेना यस्य । १ विष्णौ अमरः २ प्रियङ्गुवृक्षे स्त्री ३ विष्णोर्निर्माल्यधारके तदीयगणभेदे “निर्माल्यधारी विष्णोस्तु विश्च(ष्व)क्सेनश्चतुर्भुजः” कालिकापु० ८२ अ० । ४ त्रयोदशमनौ मत्स्यपु० ९ अ० । षमध्य एवेष्वर्थेषु पा० सम्मतः भरतस्तु शमध्यतामाह तन्मूलं चिन्त्र्यम् ।