वाचस्पत्यम्
विश्वगन्ध || न० विश्वतो गन्धोऽस्य । १ वोले गन्धरसे २ पलाण्डौ च राजनि० ।
शब्दकल्पद्रुमः
विश्वगन्धं || क्ली (विश्वे सर्व्वस्थाने गन्धो यस्य ।)
बोलम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
विश्वगन्धः || पुं, (विश्वे सर्व्वदेहे गन्धो यस्य ।)
पलाण्डुः । इति राजनिर्घण्टः ॥