विश्वचक्र
विश्वच्
विश्वचक्रात्मन्
शब्दकल्पद्रुमः
विश्वचक्रात्मा || [न्] पुं, (विश्वचक्रं ब्रह्माण्डमेव आत्मा स्वरूपं यस्य ।)
विष्णुः । यथा, —
“नमो विश्वमयायेति विश्वचक्रात्मने नमः । परमानन्दरूपी त्वं पाहि नः पापकर्द्दमात् ॥” इति मात्स्ये २५९ अध्यायः ॥