संस्कृत-शब्दकोशः

विश्वतस् विश्वदेवा

विश्वदेव

शब्दकल्पद्रुमः

विश्वदेवः || पुं, (विश्वे दीव्यतीति । दिव + अच् ।)
गणदेवताविशेषः । इत्यमरटीका ॥ “विश्वदेवौ क्रतुदक्षौ सर्व्वास्विष्टिषु विश्रुतौ । नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥ नवान्नालम्भने देवौ कामकालौ सदैव हि । अपि कन्यागते सूर्य्ये श्राद्धे च ध्वनिरोचकौ । पुरूरवाश्चाद्रवाश्च विश्वदेवौ च पर्व्वणि ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (विश्वस्य देवतास्वरूपे, त्रि । यथा, हरिवंशे । १८९ । १६ । “श्रुतं मे विश्वदेवानां यद्रहस्यं महर्षिणाम् । तदिदं सर्व्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ॥”)



Correction: