शब्दकल्पद्रुमः
विश्वद्र्यङ् || [च्] त्रि, सर्व्वत्रगमनकर्त्ता । विष्वक् समन्तात् अञ्चति गच्छति विष्वद्र्यङ् सर्व्वतो- गामी मूर्द्धन्यमध्यः तालव्यमध्योऽपीत्येके । इत्य- मरभरतौ ॥