शब्दकल्पद्रुमः
विश्वनाथः || पुं, (विश्वस्य नाथः ।)
शिवः । इति शब्दरत्नावली ॥ (यथा, वैराग्यशतके । १०१ । “न गृहीतं श्रुतिहृदयं न चन गृहीतं परिप्लवं हृदयम् । इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम् ॥” साहित्यदर्पणप्रणेता पण्डितविशेषः । यथा, साहित्यदर्पणे । “श्रीचन्द्रशेखरमहाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रबन्धम् । साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ॥” विद्यानिवासभट्टाचार्य्यपुत्त्रः पञ्चाननोपाधिकः भाषापरिच्छेदसिद्धान्तमुक्तावलीप्रणेतापरपण्डि- तविशेषः ॥)