शब्दकल्पद्रुमः
विश्वम्भरा || स्त्री (विश्वं बिभर्तीति । भॄ + खच् । मुम् । टाप् ।)
पृथिवी । इत्यमरः ॥ अस्या व्युत्पत्तिर्यथा, —
“विश्वम्भरा तद्धरणाच्चानन्तानन्तरूपतः । पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥ (यथा, उत्तरचरिते । १ अङ्के । “विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ॥”)