वाचस्पत्यम्
विश्ववेदस् || पु० विश्वं वेत्ति विद—असुन् । १ इन्द्रादौ देवे २ सर्वज्ञे च ।
शब्दकल्पद्रुमः
विश्ववेदाः || [स्] त्रि, सर्व्वज्ञः । विश्वं वेत्ति इत्यर्थे विश्वशब्दपूर्ब्बविदधातोरस्प्रत्ययेन निष्पन्न मिदम् । यथा, —
“स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥” इति यजुर्व्वेदिस्वस्तिवाचनमन्त्रः ॥ (यथाच भागवते । ८ । ३ । २६ । “सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥”)