शब्दकल्पद्रुमः
विश्वसहा || स्त्री अग्निजिह्वाविशेषः । यथा, — “हेतिः शिखा च सप्ताग्नेर्जिह्वास्ता एव कीर्त्तिताः । काली कराली सुहिता धूम्रवर्णा मनोजवा । स्फुलिङ्गिनी विश्वसहा संज्ञास्तासामुदाहृताः ॥” इति जटाधरः ॥