शब्दकल्पद्रुमः
विश्वस्ता || स्त्री विधवा । इत्यमरः ॥ (यथा, साहित्य- दर्पणे । १० परिच्छेदे । “स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव । त्वयि कुपितेऽपि विश्वस्ताः पागेव रिपुस्त्रियो जाताः ॥”)