वाचस्पत्यम्
विश्वा(श्व)राज् || पु० विश्वेषु राजते राज—क्विप् । १ विश्वेषां राजनि । २ परमेश्वरे च अस्य हलादावेवाःत्त्वमन्थत्र विश्वराजावित्यादि ।
शब्दकल्पद्रुमः
विश्वाराट् || [ज्] पुं, विश्वेषु राजते यः । विश्वेषां राट् राजा इति वा । इति मुग्धबोधव्याकर- णम् ॥ (“विश्वस्य वसुराटोः ।” ६ । ३ । १२८ । इति दीर्घः ॥)