संस्कृत-शब्दकोशः

विश्वामित्रप्रिय विश्वावसु

विश्वाराज्

वाचस्पत्यम्

विश्वा(श्व)राज् ||‍ पु० विश्वेषु राजते राज—क्विप् । १ विश्वेषां राजनि । २ परमेश्वरे च अस्य हलादावेवाःत्त्वमन्थत्र विश्वराजावित्यादि ।


शब्दकल्पद्रुमः

विश्वाराट् || [ज्] पुं, विश्वेषु राजते यः । विश्वेषां राट् राजा इति वा । इति मुग्धबोधव्याकर- णम् ॥ (“विश्वस्य वसुराटोः ।” ६ । ३ । १२८ । इति दीर्घः ॥)



Correction: