संस्कृत-शब्दकोशः

विश्वेश विश्वौषध

विश्वेश्वर

शब्दकल्पद्रुमः

विश्वेश्वरः || पुं, (विश्वस्य ईश्वरः ।)
काशीस्थ- महादेवः । यथा, —
“सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रां व्यधात् स च । मनिकर्ण्यान्तु यः स्नातो यो विश्वशं निरैक्षत ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥” इति काशीखण्डम् ॥ (यथाच तन्त्रे । “मुखेन वाद्यं सलिलेन पाद्यं मूर्त्तिर्मृदा विल्वदलेन पूजा । फलं पुनस्तस्य भवेदनन्तं निःस्वस्य विश्वेश्वर एव देवः ॥”)



Correction: