वाचस्पत्यम्
विष is an alternate of विशकण्ठा. विश(ष)(स)कण्ठा || स्त्री विश(सं)(षं) मृणालमिव कण्ठो- ऽस्याः । बलाकायां राजनि० षमध्यः समध्योऽप्यत ।
वाचस्पत्यम्
विष || न० विष—क । १ जले अमरः २ पद्मवेशरे, रायमुकुटः । ३ गन्धरसे बोले ४ वत्सनाभे—विषे च ५ गरलमात्रे पुंन० राजनि० । ६ मृणाले पु० अमरः । गरलरूपविषस्य नाम लक्षणादिकं भावप्र० उक्तं यथा “विषं तु गरलः क्ष्वेड- स्तस्य भेदानुदाहरे । वत्सनानाभः सहारिद्रः सक्तु- कश्च प्रदीपनः । सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च । हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव” । तत्र वत्सनाभस्य स्वरूपनिरूपणम् । “सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा । यत्पार्श्वेन तरोर्वृद्धिर्वत्स नाभः स भाषितः” । अथ हारिद्रस्य स्वरूपनिरूपणम् “हरिद्र तुल्यमूलो यो हारिद्रः स उदाहृतः” । अथ सक्तुकस्य स्वरूपम् “यद्ग्रन्थिः सक्तुकेनेव पूर्णमध्यः स सक्तुकः” । अथ प्रदीपनस्य स्वरूपम् “वर्णतो लो- हितो यः स्याद्दीप्तिमान् दहनप्रभः । महादाहकरः पूर्वैः कथिमः स प्रदीपनः” । अथ सौराष्ट्रिकस्य स्वरू- पम् “सराष्ट्रविशये यः स्यात् स सौराष्ट्रिक उच्यते” । अथ शृङ्गिकस्य स्वरूपम् “यस्मिन् गोशृङ्गके यद्धे दुग्धम्भवति लोहितम् । स शृङ्गिक इति प्रोक्तो द्रव्यतत्त्वविशा- रदैः” । अथ कालकूटस्य स्वरूपम् “देवासुररणे देवै- र्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थ सन्निभः । निर्यासः कालकूटोऽस्य मुनिभिः परिकी- र्त्तितः । सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्” अथ हालाहलस्य स्वरूपम् “गोस्तनाभफलो गुच्छ- स्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः । असौ हालाहलोज्ञेयः किष्किन्धायां हि- मालवे । दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते” । अथ ब्रह्मपुत्रस्य स्वरूपम् “वर्णतः कपिलो यः स्यात्तथा भवति सारतः । ब्रह्मपुत्रः स विज्ञेयो जायते मलया- चले । ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः । वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः । रसायने विषं विप्रं क्षत्रियं देहपुष्टये । वैश्यं कुष्ठविनाशाय शूद्रं दद्यात् वधाय हि” । (एते च स्थावरविषाः) तेषां शोधनविधिः तत्रैव स्थानान्तरे “गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति । रक्तसर्षपतैलाक्तं तथा धार्य्यञ्च वाससि । ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोज- येत्” । अथ विषस्य गुणाः “विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च । आग्नेयं वातकफहृत् योग- वाहि महावहम्” । व्यवायि सकलकायगुणव्यापनपूर्व- कपाकगमनशीलम् । विकाशि ओजःशोषणपूर्वकसन्धि- बन्धशिथिलीकरणशीलम् । आग्नेयम् अधिकाग्न्यंशम् । योगवाहि संसर्गिगुणग्राहकम् । मदावहं तमोगुण- प्राधान्येन बुद्धिविध्वंसकम् । “तदेव युक्तियुक्तन्तु प्राण- दायि रसायनम् । योगवाहि परं वातश्लेष्मजित् सन्नि- पातहृत्” । अथोपविषाणां निरूपणम् “अर्कक्षीरं स्नुही- क्षीरं लाङ्गली करवीरकः । गुञ्जाहिफेनोधत्तूरः सप्तो पविषजातयः” । एतेषां शोधनं चिन्त्यं गुणास्तत्र तत्र द्रष्टव्याः” । तत्र विषस्य द्वैविध्यमाह “स्थावरं जङ्गमञ्चैव द्विविघं विषमुच्यते । दशाधिष्ठानमाद्यं तु द्वितोय षोडषाश्र- यम” । स्थावरविषस्य दशाश्रयानाह “मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेब च । निर्यासो धातवः कन्दः स्थावरस्याश्रया दश” । तद्यथा मूलविषं करवीरादि । पत्रविषं विषपत्रिकादि, फलविषं कर्कोटकादि, पुष्पविषं वेत्रादि, त्वक्सारनिर्य्यासविषाणि करम्भादीनि क्षीरविषं स्नुह्यादि धातुविषं हरितालादि कन्दविषं वत्सनाभ- सक्तुकादि । जङ्गमविषस्य षोडशाश्रयानाह “दृष्टि- निःश्वासदंष्ट्रा च नखमूत्रमलानि च । शुक्रं लाला- नखस्पर्शः सदंशं स्वावमर्दितम् । गुदास्थिपित्तशुक्राणि दश षट् जङ्गमाश्रयाः” । तद्यथा दृष्टिनिःश्वासविषाः दिव्याः सर्पाः, दंष्ट्राविषाः मौमसर्पाः दंष्ट्रानखविषा व्याघ्रादयः, मूत्रपुरीषविषाः गृहगोधिकादयः शुक्रविषा मूषिकादयः, लालाविषाः उच्चिटिकादयः, लालास्पर्शमूत्र- पुरीषार्त्तवशुक्रमुखसन्दंशदंष्ट्रास्पर्शावमर्दितगुदपुरीषविषा- श्चित्रशीर्षादयः, अस्थिविषाः सर्पादयः, पित्तविषाः शकु- लमत्स्यादयः, शूकविषाः भ्रमरादयः । स्थावरविषाणां सामान्यानां कार्य्याण्याह । तत्र मूलविषस्य कार्य्यमाह “उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा” । पत्रविषस्य कार्य्यभाह “जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत्” । फलविषस्य कार्य्यमाह “शुष्कशोथः फलविषैर्दाहोद्वेषश्च मोजने” । पुष्पविषस्य कार्य्यमाह “भवेत् पुष्पविषैश्छर्दि- राध्मानं मूर्च्छनं तथा” । त्वक्सारनिर्य्यासकार्य्याण्याह “त्वक्सारनिर्य्यासविषैरुपभुक्तैर्भवन्ति हि । आस्यदौर्ग- न्ध्यपारुष्यशिरोरुक्कफसंश्रयाः” । क्षीरविषकार्य्यमाह “फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता” । धातुविष- कार्य्यमाह “हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि । प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्” । एतानि मूलविषाणि नव कालघातीनि कालान्तरे मारकाणि । कन्दविषस्य कार्य्यमाह । “कन्दजान्युग्रवीर्य्याणि या- न्युक्तानि त्रयोदश । सर्वाण्येतानि कुशलैर्ज्ञेयानि दश- भिर्गुणैः । स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्वि- मम् । सद्यो निहन्ति तत् सर्वं गुणैश्च दशभिर्युतम्” । तान् दशगुणानाह “रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च । विकाशि विशदञ्चैव लघुपाकि च ते दश” तैर्गुणैर्विषस्य कार्य्यमाह “तद्रौक्ष्यात् कोपयेद्वायु- मौष्ण्यात्पित्तं सशोणितम् । तैक्ष्ण्यान्मतिं मोहयति मर्मबन्धान् छिनत्ति हि । शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च । आशुत्वादाशु तत् प्रोक्तं व्यवायात् प्रकृतिं हरेत् । विकाशित्वात् क्षपयति दोषान् धातून्म- लानपि । अतिरिच्यते वैशद्यात् दुश्चिकित्स्यं च लाघ- वात् । दुर्जरं चाविपाकित्वात् तस्मात् क्लेशयते चिरम्” । विषलिप्तशस्त्रहतस्य लक्षणमाह “सद्यः पाकं याति यस्य क्षतं तत् स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् । कृष्णीभूतं क्लिन्नमत्थर्थपूतिक्षतान्मांसं शीर्य्यते यस्य वापि । तृष्णा- तापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं व्यवस्येत् । लिङ्गान्येतान्येव कुर्य्यादमित्रैर्दत्तः क्ष्वेडो वा व्रणे यस्य चापि” । पच्यते चाप्यभीक्ष्णं पुनः पुनः पाकमेति तापः वहिःस्थितः, दाहोऽभ्यन्तरे । यः कुर्य्या- दित्यत्र क्षतं कर्त्तृपदं बोद्धव्यम् । प्रायेण राजादी- नामन्नादौ शत्रवो विषं ददति । तेषां ज्ञानार्थं लक्षण- माह “इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः । जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् । न ददात्यु- त्तरं पृष्टो विवक्षुर्मोहमेति च । अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् । अङ्गुलीः स्फोटयेदुर्वीं विलिखेत् प्रहसेदपि । वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते । विवर्णवक्त्रः श्यामश्च नखैः किञ्चिच्छिनत्ति च । आलभेता सकृद्दीनः करेण च शिरोरुहान् । निर्यियासुरपद्वारैः वीक्षते च पुनः पुनः । वर्त्तते विपरीतं च विषदाता विचेतनः” । इङ्गितमभिप्रायसूचकम् आकारं मुखवै- कृतं मुखवैवर्ण्यादि एभिर्लिङ्गैर्वक्ष्यमाणैः न ददात्यु- त्तरं पृष्टः स्वीयासत्कर्मजनितव्यामोहात् सङ्कीर्णम् अ- स्फुटं भयजनितपर्वव्यथापनोदायाङ्गुलीः स्फोटयेत् प्रह- सेत् । अहेतावपि श्यामः दग्धसमानवर्णः, आलभेत स्पृशेत् विपरीतं यथा स्यादेवं वर्त्तते । जङ्गमविषाणां सामान्यानां कार्य्याण्याह “निद्रां तन्द्रां क्लमन्दाहं स- म्पाकं लोमहर्षरम । शोथं चैवातिसारं च कुरुते जङ्गमं विषम्” । गङ्गमेषु तीक्ष्णतरेषु सर्पानाह “वात- पितकफात्मानो माभिमण्डलराजिलाः । यथाक्रमं स- माख्याता द्व्यन्तरा द्वन्द्वरूविणः । फणिनो भोगिनो ज्ञेया संख्यातास्तेऽत्र विंशतिः । मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः । षट् ते मण्डलिनो ज्ञेया ज्व- लनार्कविषाः ऋताः । स्निग्धा विविधवर्णाभिस्तिर्य्यगू- र्घ्वञ्च राजिभिः ॥ विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट्” । एते यथाक्रमं वातपित्तकफात्मानः द्व्यन्तराः द्वे अन्तरे भेदौ येषां ते द्व्यन्तरा, यथा भो- गिनो मण्डनिन्यां जाताः इत्यादि । भोगिप्रभृति- कृतदशदेशलक्षणमाह “दंशो भोगिकृतः कृष्णः सर्व- वातविकारकृत् । पीतो मण्डलिनः शोयो मृदुः पित्त- विकारवान् । राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पि- च्छिलः । पाण्डुः स्निग्धोऽविसान्द्रासृक्सर्वश्लेष्मविकार- वान्” । देशविशेषे कालविशेते च दष्टस्यासाध्यत्वमाह “अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु । याम्ये च पित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः” । याम्ये भरण्यां पित्र्ये मघायाम् “दर्वी- कराणां विषमाशु हन्ति सर्वाणि चोष्णे द्विगुणीमान्ति” । उष्णे उष्णसंयोगे । दर्वीकरलक्षणमाह “रथाङ्गलाङ्ग- लच्छत्त्रस्वस्तिकाङ्कुशधारिणः । ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः” । अपरेषु येषु विषमाशु मारकं भवति तानाह “अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु । क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षे बले गर्भवतीषु चापि । शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न सम्भवन्ति । शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् । जिह्मं मुखं यस्य च केश- शातो नासावसादश्च सकण्ठभङ्गः । कृष्णश्च रक्तः श्वय- थुश्च दंशे हन्वोः स्थिरत्वसु विवर्जनीयम्” । केशशातः आकर्षणात्, नासावसादः नासायाः नतत्वं कण्ठभङ्गः ग्रीवाधारणाशक्तिः हन्वोः स्थिरत्वं हनुद्वयस्तम्भः । अ- परञ्च “वान्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्द्ध्वमधश्च यस्य । दंष्ट्रानिपातांश्चतुरश्च पश्येद् यस्यापि वैद्यैः परि- वर्जनीयः” । वान्तिः रुधिरस्य, यस्य च नासामुखलिङ्गगु- दादिभ्यो रक्तं स्रवेत् “उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वा- प्यथ वा विवर्णम् । सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्य्यात्” । अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभि- रतिशयेनोपद्रुतं हीनस्वरं वक्तुमक्षमं विवर्णं कृष्ण- वर्णं सारिष्टं नासाभङ्गादियुक्तम् । अवेगिनं वेगो विषवेगः । (लहरि) इति लोके तद्रहितम् । स्थावरं जङ्गमं च विषमेव जीर्णत्वादिभिः कारणैः दूषीविष- संज्ञां लभते तदाह “जीर्णं विषघ्नौषधिदूषितं वा दावाग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्र- हीनं विषं हि दूषीविषतामुपैति” । जीर्णम् अति- पुराणं विषघ्नौषधिदूषितं विषघ्नीभिरौषधीभिर्वीर्य्यही- नीकृतं स्वभावतो वा गुणविप्रहीनं स्वभावादेव दशानां गुणानां मध्ये एकद्वित्र्यादिगुणहीनम् । दूषीविषस्य कार्य्यमाह “वीर्य्याल्पभावान्न निपातयेत् तत् कफान्वितं वर्षगणानुबन्धि । तेनार्दितो भिन्नपुरीषवर्णो विगन्धि- वैरस्ययुतः पिपासी । मूर्च्छां भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद् वा” । न निपातयेत् न मार- यति कफान्वितं कफेन मन्दीकृतौष्णादिगुणं वर्षगणा- लबन्धि कफेनाग्नेर्मान्द्यादीषत्पाकाच्चिरस्थायि तथा दूषीविषजदद्रुरोगवतां भिन्नपुरीषवर्णश्च भिन्नपुरीषो- द्गतमलः भिन्नवर्णो विवर्णः । विचेष्टमानः विरुद्धां चेष्टां कुर्वन् मूर्च्छादीन् व्याधीन् लभते । स्थानविशेषोत्थिते दुषीविषे लिङ्गविशेषमाह । “आमाशयस्थे कफवात- रोगी पक्वाशयस्थेऽनिलषित्तरोगी । भवेत् समुद्ध्वस्तशि- रोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः” । समुद्ध्वस्तशि- रोऽङ्गरुट्कः समुद्धस्ताः शिरोरुहाः केशाः अङ्गरुहः लोमानि यस्य सः एतदपि लिङ्गं पक्वाशयस्थे दूषी- विषे बोद्धव्यम् “स्थितं रसादिष्वथ तद्यथोक्तान् करोति धातुप्रभवान् विकारान्” । तत् दूषीविषं यथोक्तान् सुश्रुते व्याधिसमुद्देशीयोक्तान् । दूषीविषस्य प्रकोपसमयमाह “कोपं तु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम्” । कुपितस्य दूषीविषस्य पूर्वरूपमाह “निद्रा गुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथ वाङ्गमर्दः” । वि- श्लेषः गात्रशौथिल्यं हर्षः रोमाञ्चः । रूपमाह “ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्मा । मांसक्षयं ग्राणिपदाक्षिशोथं मूर्च्छां तथा छर्द्रिमथातिसारम् । दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिं जठरस्य चापि” अन्नमदः अन्ने मुक्ते पूगफलेनेव मदः । अविपाकः अन्नस्य । दूषीविषभेदेन विकारानाह “उन्मादमन्यज्जनयेत्तथान्य- दानाहमन्यत् क्षपयेच्च शुक्रम् । गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान्” । अन्यत् दूषीविषं तांस्तान् विकारान् विसर्पविस्फोटादीन् । दूषीविषस्य निरुक्तिमाह “दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः । यस्मात् संदूषयेद्धातूंस्तस्माद्दूषीविषं स्मृतम्” । देशः अनूपादिः काला दुर्दिनादिः अन्नं कुलत्थतिलमसू- रादि धातुदूषकत्वाद्दूषीविषम् । दूषीविषस्य साध्य- त्वादिकमाह “साध्यमात्मवतः सद्यो याप्यं संवत्सरो- त्थितम् । दूषीविषससाध्यं स्यात् क्षीणस्याहितसेविनः” । कृत्रिमं विषं द्विविधम् एकं सविषं दूषीविषसंज्ञम् अपरमविषं तदेव तरसंज्ञं तथा च काश्यपसंहितायाम् “संयोगजञ्च द्विविघं द्वितीयं विषमुच्यते । दूषीविषं तु सविषमविषङ्गर उच्यते” । संयोगजं कृत्रिमं विषं द्वि- तीयं स्वाभाविकं तच्च द्विविधम् । तत्र दूषीविषमभि- धाय गरं दर्शयितुमाह “सौभाग्यार्थं स्त्रियः स्वेद- रजोनानाङ्गजान् मलान् । शत्रुप्रयुक्तांश्च गरान् प्रय- च्छन्त्यन्नमिश्रितान्” । गरकार्य्यमाह “तैः स्यात् पाण्डु कृशोऽल्पाग्निर्ज्वरश्चास्योपजायते । मर्मप्रधमनाघ्मानं ह- स्तयोः शोथसम्भवः । जठरग्रहणीरोगा यक्ष्मागुल्मक्षयो ज्वरः” । तैः गरैः स्वेदरजःप्रभृतिभिः ज्वरश्चास्योपजा- यत इति अपाकात् । मर्मप्रधमनं मर्मव्यथा क्षयो धातु- क्षयः । लूतानां जन्तुविशेषाणामुत्पत्तिं निरुक्तिं सङ्ख्या- ञ्चाह “यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः । तेभ्यो जातास्तथा लूता इति ख्यातास्तु षोडश” । अत्र सुश्रुतः “वि- श्वामित्रो नृपवरः कदाचिदृषिसत्तमम् । वशिष्ठं कोपयामास गत्वाऽश्रमपदं किल । कुपितस्य मुनेस्तस्य ललाटात् स्वेद- विन्दवः । अपतद्दर्शनादेव ह्यधस्तात्तोव्रवर्चसः । लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च । ततो जातास्त्विमे घोरा नानारूपा महाविषाः । तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि” । तत्र त्रिमण्डलप्रभृतयोऽष्टौ कष्ट- साध्याः सौवर्णिकप्रभृतयोऽष्टावसाध्याः । तासां सामा- न्यानां दंशलक्षणमाह “ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च । ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः । पिडका विविधाकारा मण्डलानि महान्ति च । शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा । सामान्यं सर्वलूतानामेतद्दंशस्य लक्षणम्” । दंशकोथः दंशमध्ये पूतिभावः । “दंशमध्ये तु यत्कृष्णं श्यावं वा जालकावृतम् । दग्धाकृति मृशम्पाकं स्वेदर्शोथज्वरा- न्वितम् । दूषीविषामिर्लूताभिस्तद्दष्टमिति निर्दिशेत्” । सौवर्णिकादयोऽष्टावसाध्या प्रणिहरास्तासां लक्षणमाह “शोषः श्वेता सिता रक्ता पीता च पिडका ज्वरः । प्राणान्तिको भवेद्दाहः श्वासहिक्काशिरोग्रहः” । आखु- दूषीविषलक्षणमाह “आदंशाच्छोणितं पाण्डुमण्डलानि रोऽरुचिः । लोमहर्षश्च दाहश्चाप्याखुदूषीविषा- र्दिते” प्राणहरमूषकविषकार्य्यमाह “मूर्च्छाङ्गशोथ- वैवर्ण्यं क्लेदशब्दाश्रुतिज्वराः । शिरोगुरुत्वं लाला- सृक् छर्दिश्चासाध्यमूषकात् । अङ्गशोथोऽत्र मूषकाकारो बोद्धव्य इति । तन्त्रान्तरे कृकलासदष्टस्य लक्षणमाह “शोथस्य कार्श्यमथ वा नानावर्णत्वमेव च । मोहोऽथ वर्चसो भेदो दष्टस्य कृकलासकैः” । वृश्चिकविषस्य लक्ष- णमाह “दहत्यग्निरिवादौ तु भिनत्तीवोर्द्धमाशु च । वृश्चिकस्य विषं याति पश्चात् दंशेऽवतिष्ठते” । असाध्यस्य वृश्चिकदष्टस्य लक्षणमाह “दष्टोऽसाध्यैस्तु हृद्घ्राण रसनोपहतो नरः । मांसैः पतद्भिरत्यर्थं वेदनार्त्तो ज- हात्यसून्” । असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः हृदा- दिषु उपहतः हृदादिकार्य्यरहितो भवति अत्यर्थं वेदनार्त्त इत्यन्वयः । कणभदष्टस्य लक्षणमाह “विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि वा । लक्षणं कणभैर्दष्टे दंशश्चैवावशीर्य्यते” । कणभः कीष्टविशेषः । उच्चिटि- ङ्गदष्टस्य लक्षणसाह “कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो- भृशार्त्तिमान् । दष्टः शीतोदकेनेव सिक्तान्यङ्गानि म- न्यते” । कृष्णलोमा अधिकतरकृष्णरोमा उच्चिटिङ्ग- (चीटा) कीटविशेषः । सविषमण्डूकदष्टस्य लक्षणमाह “एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट् । सनि- द्रश्छर्दमान् दष्टोमण्डूकैः सविषैर्भवेत्” । एकदंष्ट्रार्दितः स्वभावादेकयैव दष्ट्रया दष्टो भवति । मत्स्यविषस्य कार्य्य- माह “मत्स्यास्तु सविषा कुर्युर्दाहं शोथं रुजं तथा” । जलौकाविषकार्य्यमाह “वण्डूं शोथं ज्वरं मूर्च्छां स- विषास्तु जलौकसः” । कुर्युरिति शेषः । गृहगोधिका विषकार्य्यमाह “विदाहं श्वयथुं तोदं प्रस्वेदं गृह- गोधिकाः” । कुर्य्युरिति शेषः । शतपदीविषकार्य्यमाह “दंशे स्वेदं रुजं दाहं कुर्य्याच्छतपदीविष” शतपदी (गि- जाई) इति लोके । मशकविषकार्य्यमाह “कण्डूमा- न्मशकैरीषच्छोथः स्यान्मन्दवेदनः” । असाध्वमशकल- क्षणमाह “असाध्यकीटसदृशमसाध्यं मशकक्षतम्” । असाध्यकीटसदृशं असाध्यैः कीटैर्लूतादिभिः कृतं यत् क्षतं तत् सदृशवेदनम् । मक्षिकार्दशलक्षणमाह “सद्यः संस्राविणी श्यावादाहमूर्च्छाज्वरान्विता । पिडका मक्षिका दंशे तासान्तु स्थगिका सुहृत्” । तासामित्यादि तासां सुश्रुतोक्तानां षणां मक्षिकाणां मध्ये स्थिगिका- नाम्नी शीघ्रं प्राणं हरतीत्यर्थः । व्याघ्रादिविषाणां कार्य्यमाह “चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत् कृतम् । शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि” । चतुष्पाद्भिः व्याघ्रादिभिः द्विपाद्भिः वनमनुष्यादिमिः शूयते शूनो भवति । विषोज्झितस्य लक्षणमाह “प्रसन्नदोषं प्रकृति- स्थधातुमन्नाभिकामं सममूत्रविट्कम् । प्रसन्नवर्णेन्द्रिय चित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम्” । प्रसन्नदोषं प्रकृतिस्थदोषं शेषं सुगमम्” ।
वाचस्पत्यम्
विष || विप्रयोगे क्र्या० पर० अक० अनिट् । विष्णाति अविक्षत्
वाचस्पत्यम्
विष || व्याप्तौ जु० उभ० सक० अनिट् । वेवेष्टि वेविष्टे इरित् अविषत् अविक्षत् त । विष्णुः ।
वाचस्पत्यम्
विष || सेचने भ्वा० पर० सक० अनिट् । वेषति अविष्टत् ।
शब्दकल्पद्रुमः
विष || इर् लि ञ औ ङ व्याप्तौ । इति कवि- कल्पद्रुमः ॥ (ह्वा०-उभ०-आत्म०-इत्येके-सक०- अनिट् ।)
इर्, अविषत् अविक्षत् । लि ञ, वेवेष्टि वेविष्टे । औ, वेष्टा । ङ, वेविष्टे । उभय- पदीत्यन्ये । अफलवत् कर्त्तरि आत्मने पदार्थो ङकारः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
विष || उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् । क्त्वावेट् ।)
उ, वेषित्वा विष्ट्वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
विषं || क्ली (विष सेचने + कः ।)
जलम् । इत्य- मरः । पद्मकेशरम् । इति तट्टीकायां मुकुटः ॥ वोलम् । वत्सनाभः । सामान्यविषम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
विष || ग औ विप्रयोगे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-अक०-अनिट् ।)
ग, विष्णाति ज्ञानी पुत्त्रादिभ्यो वियुक्तः स्यात् इत्यर्थः । औ, अविक्षत् । दन्त्यान्तोऽयमिति । विष्णुव्युत्पत्तौ सुभूतिः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
विषः || पुं, क्ली, (विष + कः ।)
विषम् । तत्पर्य्यायः । क्ष्वेडः २ गरलम् ३ । इत्यमरः ॥ आहेयम् ४ अमृतम् ५ गरदम् ६ कालकूटम् ७ कलाकूलम् ८ हारिद्रम् ९ रक्तशृङ्गिकम् १० नीलम् ११ गरम् १२ घोरम् १३ हालाहलम् १४ हला- हलम् १५ शृङ्गी १६ भूगरम् १७ । इति राज- निर्घण्टः ॥ जाङ्गलम् १८ तीक्ष्णम् १९ रसः २० रसायनम् २१ गरः २२ । इति जटाधरः ॥ जङ्गुलम् २३ जाङ्गुलम् २४ । इति शब्दरत्ना- वली ॥ काकोलः २५ वत्सनाभः २६ प्रदीपनः २७ शौल्किकेयः २८ ब्रह्मपुत्त्रः २९ । इति रत्नमाला ॥ तद्भेदा यथा, —
“पुंसि क्लीवे च काकोलकालकूटहलाहलाः । सौराष्ट्रिकः शौल्किकेयो ब्रह्मपुत्त्रः प्रदीपनः ॥ दारदो वत्सनाभश्च विषभेदा अमी नव ॥” इति पातालवर्गे अमरः ॥ * ॥
अपि च । “विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हला- हलः । वत्सनाभः कालकूटो ब्रह्मपुत्त्रः प्रदीपनः ॥ सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च । अहिच्छत्रो मेषशृङ्गकुष्ठवालूकनन्दनाः ॥ कैराटको हैमवतो मर्कटः करवीरकः । सर्षपो मूलको गौरार्द्रकः सक्तुककर्द्दमौ ॥ अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः । इन्द्रो लाङ्गलिको विस्फुलिङ्गपिङ्गलगौत्तमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः ॥” इति हेमचन्द्रः ॥ अथ विषस्य नामलक्षणगुणाः । “विषं तु गरलं क्ष्वेडस्तत्तद्भेदानुदाहरेत् । वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः ॥ सौराष्ट्रिकः शृङ्गकश्च कालकूटस्तथैव च । हालाहलो ब्रह्मपुत्त्रो विषभेदा अमी नव ॥” तत्र वत्नाभस्य स्वरूपनिरूपणम् । “सिन्धुवारसदृकपत्रो वत्सनाभ्याकृतिस्तथा । यत्पार्श्वे न तरोवृद्धिर्व्वत्सनाभः स भाषितः ॥” अथ हारिद्रस्य स्वरूपम् । “हरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः ॥” अथ सक्तुकस्य स्वरूपम् । “यद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः ॥” अथ प्रदीपनस्य स्वरूपम् । “प्रदीपलोहितो यः स्याद्दीप्तिमान् दलनप्रभः । महादाहकरः पूर्व्वैः कथितः स प्रदीपनः ॥” अथ सौराष्ट्रिकस्य स्वरूपम् । ‘सुराष्ट्रविषये यः स्यात् स सौराष्ट्रिक उच्यते ॥’ अथ शृङ्गकस्य स्वरूपम् । “यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम् । स शृङ्गक इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥” अथ कालकूटस्य स्वरूपम् । “देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः । सोऽहिच्छत्रे शृङ्गवेरे कोकणे मलये भवेत् ॥” अथ हालाहलस्य स्वरूपम् । “गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥ असौ हालाहलो ज्ञेयः क्रिष्किन्धायां हिमा- लये । दक्षिणाब्धितटे देशे कोकणेऽपि च जायते ॥” अथ ब्रह्मपुत्त्रस्य स्वरूपम् । “वर्णतः कपिलो यः स्यात् तथा भवति साधकः । ब्रह्मपुत्त्रः स विज्ञेयो जायते मलयाचले ॥ ब्राह्मणः पाण्डरस्तेषु क्षत्त्रियो लोहितप्रभः । वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः ॥ रसायने विषं विप्रं क्षत्त्रियं देहपुष्टये । वैश्यं कुष्ठविनाशाय शूद्रं दध्याद्वधाय हि ॥” अथ विषस्य गुणाः । “विषं प्राणहरं प्रोक्तं व्यवायि च विकासि च । आग्नेयं वातकफहृद्योगवाहिमदावहम् ॥” व्यवायि सकलकायगुणव्यापनपूर्ब्बकपाकागमन- शीलम् । विकासि ओजःशोषणपूर्ब्बकं सन्धि- बन्धशिथिलीकरणशीलम् । आग्नेयं अधिका- ग्न्यंशम् । योगवाहि संसर्गगुणवाहकम् । “मदावहं तमोगुणाधिक्येन बुद्धिविध्वंसकम् । तदेव युक्तियुक्तन्तु प्राणदायि रसायनम् ॥ योगवाहि परं वातश्लेष्मजित् सन्निपातहृत् । योगवाहि त्रिदोषघ्नं बृंहणं वीर्य्यवर्द्धनम् ॥ ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥” अथोपविषाणां निरूपणम् । “अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका । करवीरोऽथ धुस्तूरः पञ्च चोपविषाः स्मृताः ॥” उपविषा गौणविषाः । एषां गुणास्तत्र तत्र द्रष्टव्याः । अपि च । “अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः । गुञ्जाहिफेनो धुस्तूरः सप्तोपविषजातयः ॥” एतेषां शोधनं चिन्त्यम् । गुणास्तत्र द्रष्टव्याः ॥ अथ विषाणां शोधनविधिः । “गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति । रक्तसर्षपतैलाक्तं तथा धार्य्यञ्च वाससि ॥ येगुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥” इति भावप्रकाशे पूर्व्वखण्डः ॥ अथ विषाधिकारः । तत्र विषस्य द्वैविध्य- माह । “स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते । दशाधिष्ठानमाद्यन्तु द्बितीयं षोडशाश्रयम् ॥” स्थावरविषस्य दशाश्रयानाह । “मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च । निर्यासो धातवस्कन्दः स्थावरस्याश्रया दश ॥” तद्यथा । मूलविषं करवीरादि १ । पत्रविषं विषपत्रिकादि २ । फलविषं कर्कोटकादि ३ । पुष्पविषं वेत्रादि ४ । त्वकसारनिर्यासविषाणि करम्भादीनि ५ । ६ । ७ । क्षीरविषं स्नुह्यादि ८ । धातुविषं हरितालादि ९ । कन्दविषं वत्स- नाभसक्तुकादि १० ॥ * ॥
जङ्गमविषस्य षोड शाश्रयानाह । “दृष्टिनिश्वासदंष्ट्राश्च नखमूत्रमलानि च । शुक्रं लाला मुखं स्पर्शः संदंश श्चावमर्द्दितम् । गुदास्थिपित्तशूकानि दश षट् जङ्गमाश्रयाः ॥” तद्यथा । दृष्टिनिश्वासविषा दिव्याः सर्पाः १ । २ । दंष्ट्राविषाः भौमाः सर्पाः ३ । दंष्ट्रानखविषा व्याघ्रादयः ४ । मूत्रपुरीषविषा गृहगोधिका- दयः ५ । ६ । शुक्रविषा मूषिकादयः ७ । लालाविषा उच्चिटङ्गादयः ८ । लालास्पर्शमूत्रपुरीषार्त्तव- शुक्रमुखसंदंशदंष्ट्रास्पर्शावमर्द्दितगुदपुरीषविषा- श्चित्रशीषादयः ९ । १० । ११ । १२ । १३ । अस्थिविषाः र्पादयः १४ । पित्तविषा नकुलमत्स्यादयः १५ । शूकविषा भ्रमरादयः १६ ॥ * ॥
स्थावराविषाणां सामान्यानां कार्य्याण्याह । “स्थावरन्तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् । फेनच्छर्द्यरुचिश्वासमूर्च्छाञ्च कुरुते विषम ॥” आश्रयभेदेन विशिष्टानां विषाणां कार्य्या- ण्याह । तत्र मूलविषस्य कार्य्यमाह । “उद्वेष्टनं मूलविषैर्मोहः प्रलपनं भवेत् ॥” पत्रविषस्य कार्य्यमाह । “जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत् ॥” फलविषस्य कार्य्यमाह । “शुष्कशोथः फलविषैर्दाहो द्बेषश्च भोजने ॥” पुष्पविषस्य कार्य्यमाह । “भवेत् पुष्पविषैश्छर्द्दिराध्मानं मूर्च्छनं तथा ॥” त्वक्सारनिर्यासविषाणां कार्य्याण्याह । “त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि । आस्यदौगन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ॥” क्षीरविषकार्य्यमाह । “फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता ॥” धातुविषकार्य्यमाह । “हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि । प्रायेण कालघातीनि विषाण्येतानि निर्द्दिशेत् ॥ एतानि मूलादीनि विषाणि नव कालघातीनि कालान्तरे मारकाणि ॥ * ॥
कन्दविषस्य कार्य्यमाह । “कन्दजान्युग्रवीर्य्याणि यान्युक्तानि त्रयोदश । सर्व्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः ॥ स्थावरं जङ्गमञ्चापि कृत्रिमञ्चापि यद्विषम् । सद्यो निहन्ति तत् सर्व्वं गुणैश्चेद्दशभिर्युतम् ॥” तान् दशगुणानाह । “रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च । विकाशि विशदं चैव लघ्वपाकि च ते दश ॥” तेर्गुणैर्विषस्य कार्य्यमाह । “तद्रौक्षात् कोपयेद्वायुमौष्ण्यात् पित्तं सशो- णितम् । तैक्ष्ण्यान्मतिं मोहयति मर्म्मवन्धांश्छिनत्ति हि ॥ शरीरावयवान् सौक्ष्मात् प्रविशेद्विकरोति च । आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं हरेत् ॥ विकाशित्वात् क्षपयति दोषान् धातून् मला- न्यपि । अतिरिच्यत वैशद्याद्दुश्चिकित्स्यञ्च लाघवात् । दुर्ज्जरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ॥” विषलिप्तशस्त्रहतस्य लक्षणमाह । “सद्यः पाकं याति यस्य क्षतं तत् स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् । कृष्णीभूतं क्लिन्नमत्यर्थपूति- क्षतान् मांसं शीर्य्यते यस्य चापि ॥ तृष्णातापौ दाहमूर्च्छे च यस्य दिग्धाविद्वं तं मनुष्यं व्यवस्येत् । लिङ्गान्येतान्येव कुर्य्यादमित्रै- र्दत्तः क्ष्वेडो वा व्रणे यस्य चापि ॥” पच्यते चाप्यभीक्ष्णं पुनः पुनः पाकमेति । तापो बहिस्तप्तता । दाहोऽभ्यन्तरे । कर्य्यादित्यत्र क्षतं कर्त्तृपदं बोद्धव्यम् । प्रायेण राजादीना- मन्नादौ शत्रवो विषं ददति ॥ * ॥
तेषां ज्ञानार्थं लक्षणमाह । “इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः । जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ॥ न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च । अपार्थं बहु संकीर्णं भाषते चापि मूढवत् ॥ अङ्गुलीः स्फोटयेदुर्व्वीं विलिखेत् प्रहसेदपि । वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते ॥ विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च । आलभेत सकृद्दीनः करेण च शिरोरुहान् ॥ निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः । वर्त्तते विपरीतञ्च विषदाता विचेतनः ॥” इङ्गितमभिप्रायसूचक आकारः । मुखवैकृतिं मुखवैवर्ण्यादिः । एभिर्लिङ्गैः वक्ष्यमाणैः । न ददात्युत्तरं पृष्टः स्वीयासत्कर्म्मजनितव्यामो- हात् । संकीर्णं अस्फुटम् । भयजवायुजनित- पर्व्वव्यथापनोदायाङ्गुलीः स्फोटयेत् । प्रहसेत् अहेतावपि । ध्यामः दग्धसमानवर्णः । आल- भेत् स्पृशेत् । विपरीतं यथा स्यादेवं वर्त्तेत ॥ जङ्गमविषाणां सामान्यानां कार्य्यमाह । “निद्रातन्द्राक्लमं दाहं सम्पाकं लोमहर्षणम् । शोथञ्चैवातिसारञ्च कुरुते जङ्गमं विषम् ॥” जङ्गमेषु तीक्ष्णतरत्वेन सर्पानाह । “वातपित्तकफात्मानो भोगिमण्डलिराजिलाः । यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः ॥” भोगिनः फणिनः । ते च विंशतिः । “मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः । षट् ते मण्डलिनो ज्ञेया ज्वलनार्कसमा विषैः ॥ स्निग्धा विविधवर्णाभिस्तिर्य्यगूर्द्ध्वञ्च राजिभिः । विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट् ॥” एते यथाक्रमं वातपित्तकफात्मानः । द्ब्यन्तरा द्वे अन्तरे भेदौ येषां ते द्ब्यन्तराः । यथा भोगिनो मण्डलिभ्यां जाताः इत्यादि ॥ * ॥
भोगिप्रभृतिकृशदंशलक्षणभेदमाह । “दंशो भोगिकृतः कृष्णः सर्व्ववातविकारनुत् । पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान् ॥ राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः । पाण्डुः स्निग्धोऽतिसान्द्रासृक्सर्व्वश्लेष्मविकार- वान् ॥” देशविशेषे कालविशेषे च दष्टस्यासाध्यत्वमाह । “अश्वत्थदेवायतनश्मशान- वल्मीकसन्ध्यासु चतुष्पथेषु । याम्ये सपित्र्ये परिवर्ज्जनीया ऋक्षे नरा मर्म्मसु ये च दष्टाः ॥” याम्ये भरण्याम् । पित्र्ये मघायाम् । “दार्व्वीकराणां विषमाशु हन्ति सर्व्वाणि चोष्णे द्बिगुणीभवन्ति ॥” उष्णे उष्मसंयोगे । दार्व्वीकरलक्षणमाह । “रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः । ज्ञेया दार्व्वीकराः सर्पाः फणिनः शीघ्र- गामिनः ॥” अपरेषु येषु विषमाशु मारकं भवति तानाह । “अजीर्णपित्तातपपीडितेषु बालेषु वृद्धषु बुभुक्षितेषु । क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षे बले गर्भवतीषु चापि ॥ शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न संभवन्ति शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्ज्जयेत्तम् ॥ जिह्मं मुखं यस्य च केशशातो नासावसादश्च सकण्ठभङ्गः । कृष्णश्च रक्तः श्वयथुश्च दंशो हन्वोः स्थिरत्वञ्च स वर्ज्जनीयः ॥” केशशातः आकर्षणात् । नासावसादः नासाया नतत्वम् । कण्ठभङ्गः ग्रीवाधारणाशक्तिः । हन्वोः स्थिरत्वं हनुद्बयस्तम्भः ॥ * ॥
अपरश्च । “वर्त्तिर्घनी यस्य निरेति वक्त्रा- द्रक्तं स्रवेदूर्द्ध्वमधश्च यस्य । दंष्ट्रानिपातांश्चतुरश्च पश्येद्- यस्यापि वैद्यैः परिवर्जनीयः ॥” वर्त्तिः रुधिरस्थम् । रक्तं स्रवेदूर्द्ध्वमधश्च यस्य यस्य च नासामुखलिङ्गगुदादिभ्यो रक्तं स्रवेत् । “उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाप्यथवा विवर्णम् । सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तस्य न कर्म्म कुर्य्यात् ॥” अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभिरतिशये- नोपद्रुतम् । हीनस्वरं वक्तुमक्षमम् । विवर्णं कृष्णवर्णम् । सारिष्टं नासाभङ्गादियुक्तम् । अवेगिनं वेगो विषवेगः लहरि इति लोके तद्रहितम् । * । स्थावरं जङ्गमं विषमेव जीर्णत्वादिभिः कारणैर्दूषीविषसंज्ञां लभते । तदाह । “जीर्णं विषघ्नौषधिदूषितं वा दावाग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ॥” जीर्णं अतिपुराणम् । विषघ्नौषधिदूषितं विषघ्ना- भिरोषधीभिर्व्वीर्य्यहीनीकृतम् । स्वभावतो वा गुणविप्रहीनं स्वभावादेव दशानां गुणानां मध्ये द्वित्र्यादिगुणहीनम् ॥ * ॥
दूषीविषस्य कार्य्यमाह । “वीर्य्याल्पभावान्न निपातयेत्तत् कफान्वितं वर्षगुणानुबन्धि । तेनार्द्दितो भिन्नपुरीषवर्णो विगन्धवैरस्ययुतः पिपासी ॥ मूर्च्छां भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद्वा ॥” न निपातयेत् न मारयति । कफान्वितं कफेन मन्दीकृतौष्णादिगुणम् । वर्षगुणानुबन्धि कफे- नाग्नेर्मान्द्यादीषत्पाकाच्चिरमास्थायि । भिन्न- पुरीषवर्णः भिन्नपुरीषो द्रुतमलः भिन्नवर्णश्च । विचेष्टमानो विरुद्धां चेष्टां कुर्वन् मूर्च्छादीन् व्याधीन् लभते ॥ * ॥
स्थानविशेषस्थिते दूषी- विषे लिङ्गविशेषमाह । “आमा शयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी । भवेत् समुद्धस्तशिरोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः ॥” समुद्धस्तशिरोरुहः केशाः अङ्गरुहि च रोमाणि यस्य सः । एतदपि लिङ्गं पक्वाशयस्थे दूषीविषे बोद्धव्यम् । स्थिरं रसादिष्वथ तद्यथोक्तान् करोति धातुप्रभवान् विकारान् । तत् दूषी- विषम् । यथोक्तान् सुश्रुते व्याधिसमुद्देशी- योक्तान् । * । दूषीविषस्य प्रकोपसमयमाह । “कोपन्तु शीतानिलदुर्दिनेषु जात्याशु पूर्ब्बं शृणु तस्य रूपम् ॥” * ॥
कुपितस्य तस्य दूषीविषस्य पूर्ब्बरूपमाह । “निद्रागुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथवाङ्गमर्दः ॥” विश्लेषः गात्रशैथिल्यम् । हर्षः रोमाञ्चः । * । रूपमाह । “ततः करोत्यन्नमदाषिपाका- वरोचकं मण्डलकोटजन्म । मांसक्षयं पाणिपदाक्षिशोथं मूर्च्छां तथा च्छर्द्दिमथातिसारम् ॥” दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिं जठरस्य चापि । अन्नमदः अन्ने भुक्ते पूगफले- नेव मदः अविपाकः । * । अन्नस्य दूषीविष- भेदेन विकारभेदमाह । “उन्मादमन्यज्जनयेत्तथान्य- दानाहमन्यत् क्षपयेच्च शुक्रम् । गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ॥” अन्यत् दूषीविषम् । तांस्तान् विकारान् विसर्प- विस्फोटादीन् । * । दूषीविषस्य निरुक्तिमाह । “दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः । यस्मात् संदूषयेद्धातुं तस्मात् दूषीविषं स्मृतम् ॥” देशः अनूपादिः । कालो दुर्दिनादिः । अन्नं कुलत्थतिलमसुरादि । धातुदूषकत्वाद्दूषीवि- षम् ॥ * ॥
दूषीविषस्य साध्यत्वादिकमाह । “साध्यमात्मवतः सद्यो याप्यं संवत्सरोषितम् । दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ॥” कृत्रिमं विषं द्विविधम् । एकं सविषं दूषीविष- संज्ञम् । अपरमविषं तदेव गरसंज्ञम् । तथा च काश्यपसंहितायाम् । “संयोगजञ्च द्विविधं द्वितीयं विषमुच्यते । दूषीविषन्तु सविषमविषं गर उच्यते ॥” संयोगजं कृत्रिमं विषम् । द्वितीयं स्वाभावि- कात् । तच्च द्विविधम् । * । तत्र दूषीविष- मभिधाय गरं दर्शयितुमाह । “सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान् मलान् । शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ॥” * गरकाय्यमाह । “तैः स्यात् पाण्डुकृशोऽल्पाग्निर्ज्ज्वरश्चास्योप- नायते । मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः ॥ जठरं ग्रहणीरोगा यक्ष्मा गुल्मः क्षयो ज्वरः । एवंविधस्य चान्यस्य व्याधेर्लिङ्गञ्च जायते ॥” तैर्गरैः स्वेतरजःप्रभृतिभिः । ज्वरश्चास्योप- जायत इति अपाकात् । मर्म्मप्रधमनं मर्म्म- व्यथाम् । क्षयो धातुक्षयः ॥ * ॥
लूतानां जन्तु- विशेषाणामुत्पत्तिं संख्याञ्चाह । “यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः । तेभ्यो जातास्ततो लूता इति ख्यातास्तु षोडश ॥” तत्र सुश्रुतः । “विश्वामित्रो नृपवरःः कदाचिदृषिसत्तमम् । वशिष्ठं कोपयामास गत्वाश्रमपदं किल ॥ कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः । अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्च्चसः । लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च ॥ ततो जातास्त्विमे घोरा नानारूपा महाविषाः । तासामष्टौ कष्टसाध्या वर्ज्यास्तावन्त्य एव हि ॥ तत्र तृणमण्डलाप्रभृतयोऽष्टौ कष्टसाध्याः । सौव- र्णिकाप्रभृतयोऽष्टावसाध्याः ॥ * ॥
तासां सामा- न्यानां दंशलक्षणमाह । “ताभिर्दष्टे दंशकोप्यः प्रवृत्तिः क्षतजस्य च । ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदो- षजाः ॥ पिडका विविधाकारा मण्डलानि महान्ति च । शोथो महान्तो मृदवो रक्ताः श्यावाश्चला- स्तथा ॥ सामान्यं सर्व्वलूतानामेतद्दंशस्य लक्षणम् ।” दंशकोप्यः दंशमध्ये पूतिभावः । “दंशमध्ये तु यत् कृष्णं श्यावं वा जालमावृतम् ॥ दग्धाकृति भृशं पाकं क्लेदशोऽथज्वरान्वितम् । दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्द्दिशेत् ॥” सौवर्णिकादयोऽष्टावसाध्याः प्राणहरास्तासां लक्षणमाह । “शोथः श्वेता सिता रक्ता पीता वा पिडका ज्वरः । प्राणान्तिको भवेद्दाहः श्वासहिक्का शिरो- ग्रहः ॥” आखुदूषीविषलक्षणमाह । “आदंशाच्छोणितं पाण्डुमण्डलानि ज्वरो- ऽरुचिः । लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्द्दिते ॥” प्राणहरमूषकविषकार्य्यमाह । “मूर्च्छाङ्गशोथवैवण्यं क्लेदशब्दाश्रुतिज्वराः । शिरोगुरुत्वं लालासृक्छर्द्दिश्चासाध्यमूषकात् ॥” अङ्गशोथोऽत्र मूषकाकारो बोद्धव्य इति तन्त्रा- न्तरे ॥ * ॥
कृकलासदष्टस्य लक्षणमाह । “शोथस्य कार्य्यमथवा नानावर्णत्वमेव च । मोहोऽथ वर्च्चसो भेदो दष्ठस्य कृकलासकैः ॥” वृश्चिकविषस्य लक्षणमाह । “दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च । वृश्चिकस्य विषं याति पश्चात् दंशोऽवतिष्ठते ॥” असाध्यवृश्चिकदष्टस्य लक्षणमाह । “दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः । मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥” असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः । हृदादिषूप- हतः हृदादिकार्य्यरहितो भवति । अत्यर्थं वेदनार्त्त इत्यन्वयः ॥ कणभदष्टस्य लक्षणमाह । “विसर्पः श्वयथुः शूलं ज्वरश्छर्द्दिरथापि च । लक्षणं कणभैर्दष्टे दंशश्चैवावशीर्य्यते ॥” कणभः कीटविशेषः ॥ उच्चिटङ्गदष्टस्य लक्षण- माह । “कृष्णरोमोच्चिटङ्गेन स्तब्धलिङ्गो भृषार्त्ति- मान् । दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ॥” कृष्णरोमा अधिकतरकृष्णरोमा । उच्चिटङ्ग- श्चीटाकीटविशेषः ॥ * ॥
सविषमण्डूकदष्टस्य लक्षणमाह । “एकदंष्ट्रार्द्दितः शूनः सरुजः पीतकः सतृट् । सनिद्रश्छर्द्दिमान् दष्टो मण्डूकैः सविषैर्भवेत् ॥” एकदंष्ट्रार्द्दितः स्वभावादेकयैव दंष्ट्रया दष्टो भवति ॥ * ॥
मत्स्यविषस्य कार्य्यमाह । “मत्स्यास्तु सविषाः कुर्य्युर्दाहं शोथं रुजं तथा ॥” जलौकोविषकार्य्यमाह । “कण्डूशोथं ज्वरं मूर्च्छां सविषास्तु जलौकंसः ।” कुर्य्युरिति शेषः ॥ * ॥
गृहगोधिकाविषकार्य्य- लक्षणमाह । “विदाहं श्वयथुं तोदं प्रस्वेदं गृहगोधिकाः ।” कुर्य्युः । इति शेषः ॥ * ॥
शतपदीविषकार्य्यमाह । “दंशे स्वेदं रुजं दाहं कुर्य्यात् शतपदीविषम् ।” शतपदी गिजाइ इति लोके ॥ * ॥
मशकविष- कार्य्यमाह । “कण्डूमान् मशकैरीषच्छोथः स्यान्मन्दवेदनः ॥” असाध्यमशकलक्षणमाह । “असाध्यकीटसदृशमसाध्यं मशकक्षतम् ।” असाध्यकीटसदृशं असाध्यैः कीटैर्लूताभिः कृतं यत् क्षतं तत्सदृशवेदनम् ॥ * ॥
मक्षिकादंशस्य लक्षणमाह । “सद्यःसंस्राविणी श्यावा दाहमूर्च्छाज्वरा- न्विता । पिडका मक्षिकादंशे तासान्तु स्थगिकाशुहृत् ॥” तासामित्यादि । तासां सुश्रुतोक्तानां षण्णां मक्षिकाणां मध्ये स्थगिकानाम्नी शीघ्रं प्राणं हरतीत्यर्थः ॥ व्याघ्रादिविषाणां कार्य्यमाह । “चतुष्पाद्भिर्द्विपाद्भिर्व्वा नखैर्दन्तैश्च यत् क्षतम् । सूयते पच्यते तत्तु स्रवते ज्वरयत्यपि ॥” चतुष्पाद्भिर्व्याघ्रादिभिः । द्विपाद्भिर्वनमानुषा- दिभिः । सूयते सूनं भवति ॥ * ॥
विषोज्झितस्य लक्षणमाह । “प्रसन्नदोषं प्रकृतिस्थधातु- मन्नाभिकामं सममूत्रविट्कम् । प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ॥” प्रसन्नदोषं प्रकृतिस्थदोषं शेषं सुगयम् ॥ * ॥
अथ विषाणां चिकित्सा । तत्र स्थावरविषास्य चिकित्सा । “स्थावरेण विषेणार्त्तनरं यत्नेन वामयेत् । वमनेन समं नास्ति यतस्तस्य चिकित्सितम् ॥ विषमत्यर्थमुष्णञ्च तीक्ष्णञ्च कथितं यतः । अतः सर्व्वविषे युक्तः परिषेकस्तु शीतलः ॥ औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत् । वामितं सेचयेत्तस्माच्छीतलेन जलेन च ॥ पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम् । भोक्तुमम्लं रसं दद्यात् चर्व्वयेन्मरिचानि च ॥ यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः । तस्य तस्यौषधैः कुर्य्याद्विपरीतगुणैः क्रियाम् ॥ शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः । भोजनार्थे विषार्त्तानां हिताः पटुषु सैन्धवम् ॥” प्रियङ्गुः कङ्गुः । “मूलत्वक पत्रपुष्पाणि बीजञ्चेति शिरीषतः । गवां मूत्रेण संपिष्टं लेपाद्बिषहरं भवेत् ॥ दूषीविषार्त्तः सुस्निग्धमूर्द्ध्वं चाधश्च शोधितम् । पाययेदगदं मुख्यमिदं दूषीविषापहम् ॥ पिप्पलीध्यामकं मांसी लोध्रमेला सुवर्च्चिका । मरिचं बालकं चैला तथा कनकगैरिकम् ॥ क्षौद्रयुक्तः कषायोऽयं दूषीविषमपोहति ॥” ध्यामकं रोहिषम् । तदलाभे उशीरं देयम् । कनकगैरिकं सोणागेरू इति लोके । अत्यन्त- मारक्तम् ॥ * ॥
अथ जङ्गमविषस्य चिकित्सा । “अभयां रोचनां कुष्ठमर्कपुष्पं तथोत्पलम् । नलवेतसमूलानि गरलं सुरसां तथा ॥ सकलिङ्गं समञ्जिष्ठामनन्ताञ्च शतावरीम् । शृङ्गाटकं समङ्गाञ्च पद्मकेशरमित्यपि ॥ कल्कीकृत्य पचेत् सर्पिः पयो दद्याच्चतुर्गुणम् । सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन् विनिः- क्षिपेत् ॥ सर्पिस्तुल्यं भिषक् क्षौद्रं कृतरक्षं निधापयेत् । विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ॥ स्पर्शाद्धन्ति विषं सर्व्वं गरैरुपहितां त्वचाम् । योगजन्तमकं कण्डूं मांससादं विसंज्ञताम् ॥ नाशयत्यञ्जनाभ्यङ्गपानवस्तिषु योजितम् । सर्पकीटाखुलूतादिदष्टानां विषहृत् परम् ॥” मृत्युपाशच्छ्रेदि घृतम् ॥ “धुस्तूरस्य शिफा पेया क्षीरेण परिपेषिता । अङ्कोठवंशजा चापि श्वविषघ्नी प्रयत्नतः ॥ रजनीयुग्गपत्तङ्गमञ्जिष्ठानागकेशरैः । शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ॥ जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः । सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत् ॥ गन्धमाघ्राय मुदितसूर्य्यावर्त्तदलस्य तु । वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥” इति विषाधिकारः । इति भावप्रकाशः ॥ * ॥
पारिभाषिकविषा यथा, —
“न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ अपि च । “दुरधीता विषं विद्या अजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ विषं चंक्रमणं रात्रौ विषं राज्ञोऽनुकूलता । विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥” इति चाणक्यम् ॥