वाचस्पत्यम्
विषकण्टकिनी || स्त्री विषयुक्तं कण्टकमस्त्यस्या इनि । बन्ध्याकर्कोट्याम् राजनि०
शब्दकल्पद्रुमः
विषकण्टकिनी || स्त्री (विषयुक्तः कण्टकोऽस्या अस्तीति । इनिः । ङीष् ।)
बन्ध्याकर्कोटकी । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, —
“वन्ध्याकर्कोटकी देवी कन्यायोगीश्वरीति च । नागारिनक्रदमनी विषकण्टकिनी तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)