वाचस्पत्यम्
विषघातिन् || पु० विषं हन्ति हन—णिनि । शिरीषवृस्ते शब्दमाला । २ विषनाशके त्रि० ।
शब्दकल्पद्रुमः
विषघाती || [न्] पुं, (विषं हन्तीति । हन + णिनिः ।) शिरीषवृक्षः । इति शब्दमाला ॥ विषनाशके, त्रि ॥