वाचस्पत्यम्
विषघ्न || पु० विषं हन्ति हन—टक् । १ शिरीषवृक्षे शब्दच० । २ यवासे ३ विभीतके राजनि० । ४ चम्पकवृक्षे च जटा० । ५ हिलमो- चिकायां (हेलेञ्चा)स्त्री ङीप् । ६ इन्द्रवारुण्याम् ७ वनवर्ष- रायाम् ८ भूम्यामलक्याम् ९ रक्तपुनर्नवायाम् १० हरि- द्रायाम् ११ वृश्चिकाल्याम् १२ महाकरञ्जे च १३ झ ज्झफलायां स्त्री राजनि० ङीप् । १४ विषनाशके त्रि० ।
शब्दकल्पद्रुमः
विषघ्नः || पुं, (विषं हन्तीति । हन + टक् ।)
शिरीष- वृक्षः । इति शब्दचन्द्रिका ॥ यवासः । विभी- तकः । इति राजनिर्घण्टः ॥ चम्पकवृक्षः । इति जटाधरः ॥ विषनाशके, त्रि ॥ (यथा, मनुः । ७ । २१८ । “विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥”)
विषघ्नौषधानि यथा, — मनुरुवाच । “रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा । अगदादि समाचक्ष्व तानि धर्म्मभृतांवर ॥ मत्स्य उवाच । विल्वाढकायवक्षारं पाटला वाह्लिकोषणा । श्रीपर्णी शल्लकीयुक्ता निष्काथ्य प्रोक्षणं परम् । सविषं प्रोक्षितं तेन सद्यो भवति निर्व्विषम् ॥ १ ॥ यवसेन्धनपानीयवस्त्रशय्यासनोदनम् । कवचाभरणं छत्रं बालव्यजनवेश्मनी ॥ शेलुः पाटल्यतिविषा गोपी भार्गी पुनर्नवा । समङ्गावृक्षमूलत्वक्कपित्थवृषशोणितम् । सहदन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् ॥ २ ॥ लाक्षा प्रियङ्गु मञ्जिष्ठा सममेला हरेणुका । सयष्ट्या मधुना युक्ता वभ्रुपित्तेन कल्किता ॥ निखनेद्गोविषाणस्थं सप्तरात्रं महीतले । ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टं सविषन्तेन सद्यो भवति निर्व्विषम् ॥ ३ ॥ मनो जलं शमीपुष्पं दुर्द्धर्षा चैव कर्षकाः । कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥ शुनो गोः कपिलायाश्च सौम्याख्येयापरोऽगदः । विषजित् परमं कार्य्यं मणिरत्नञ्च पूर्ब्बवत् । मूषिका जतुका वापि हस्ते बद्धा विषापहा ॥ ४ ॥ हरेणु मांसी मञ्जिष्ठा रजनी मधुका मधु । अक्षत्वक् सुरसं लाक्षाम्बुपित्तं पूर्ब्बवद्भुवि ॥ वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः । श्रुत्वा दृष्ट्वाथ चाघ्राय सद्यो भवति निर्व्विषः ॥ ५ त्र्युषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् । सूक्ष्मैला त्रिवृतापत्रं विडङ्गमिन्द्रवारुणी ॥ मधुकं वेतसं क्षौद्रं गोविषाणे निधापयेत् । तस्मादुष्णाम्बुना मात्रा प्रागुक्तं योजयेत्तथा । विषं भुक्तं जारयति निर्व्विषेऽपि न दोषकृत् ॥ ६ ॥ सक्तुं सर्ज्जरसोपेतं सर्षपा एलवालुकैः । सुवर्णा तस्करतरोः कुसुमैरर्ज्जुनस्य तु ॥ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटाः सविषा न दर्द्दरसरीसृपाः । न कृत्या कर्म्मणस्तत्र धूपोऽयं यत्र दह्यते ॥ ७ ॥ कल्कितैश्च तृणक्षीरपलाशद्रुमवल्कलैः । दूर्व्वैलवालुसुरसानाकुलीतण्डुलीयकैः । क्वाथः सर्वौदकार्थेषु काकमाचीयुतैर्वृतः ॥ ८ ॥ रोचनापत्रनेपालीकुङ्कुमैस्तिलकोऽन्वहम् । विषैर्न वाध्यते स्याच्च नरनारीनृपप्रियः ॥ ९ ॥ चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः । दिग्धं निर्व्विषतामेति गात्रं सर्व्वविषार्द्दितम् ॥ १० शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च । गोमूत्रघृष्टो ह्यगदः सर्व्वकर्म्मकरः स्मृतः ॥ ११ * एकवीरमहौषध्यः शृणु चातः परं द्बिज । बन्ध्याकर्कोटकी राजन् विष्णुक्रान्ता तथोत्कटा । शतमूली शतानन्दी वला मोचा पटोकिला ॥ सोमा पिण्डनिशा चैव तथा दग्धरुहा च या । स्थले कमलिनी या च विशाली शङ्खमूलिका ॥ चण्डाली हस्तिचण्डाली गोचण्डाली च गन्धिका । रक्ता चैव महारक्ता तथा वर्हिशिखा च या । कोषातकी नक्तमाला पियाला शुभलक्षणा । वारणा च सुगन्धा च तथा वै गन्धनाकुली ॥ ईश्वरी च शिलीन्ध्री च सोमली वंशतालिका । जतुकाली महाश्वेता श्वेता च मधुयष्टिका ॥ वर्जटः पारिभद्रश्च तथा वै सिन्धुवारिका । जीवानन्दा वसुमती नर्त्तनागरकण्टकी ॥ तालता जालपाताला तथा च वटपत्रिका । कार्त्तक्षीरी महानीला कट्टरं हंसपादिका ॥ मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके । सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखङ्करी ॥ रजापहा वृद्धिकरी तथा शल्यापहा च या । पत्रिका रोहिणी चैव रक्तमाला महौषधी ॥ तथामलकवन्दाकं या च चित्रा पटोलिका । काकोली क्षीरकाकोली पीलुपर्णी तथैव च ॥ केशिनी वृश्चिकाली च महानागा शतावरी । तथा गरुडवेगा च स्थले कुमुदिनी तथा ॥ स्थले चोत्पलिनी या च महाभूमिलता च या । उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव ॥ विशेषान्मरकतान्यत्र कीटपक्षं विशेषतः । जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः ॥ * ॥
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशनाः । विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥ सर्पतित्तिरिगोमायुवभ्रुमण्डूकजाश्च ये । सिंहव्याघ्रर्क्षमार्ज्जारद्वीपिवानरसम्भवाः ॥ कपिञ्जलाजगोधाहिमहिषेषु भवाश्च ये ॥ इत्येवमेतैः सकलैरुपेतै- र्द्रव्यैश्च सर्व्वैः स्वपुरं सुरक्षितम् । राजा वसेत्तत्र गृहञ्च शुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् ॥” इति मात्स्ये १९२ अध्यायः ॥ (तण्डुलीयः । तत्पर्य्यायो यथा । अथ च वराइ । अल्पमरुसा इति च । “तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुलीबोजो विषघ्नश्चाल्पमारिषः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)