शब्दकल्पद्रुमः
विषण्णता || स्त्री (विषण्णस्य भावः । तल् ।) जडता । यथा, — “जाड्यं मौर्ख्यं विषादोऽवसादः सादो विष- ण्णता ॥” इति हेमचन्द्रः ॥