संस्कृत-शब्दकोशः

विषद्रुम विषधर्मा

विषधर

वाचस्पत्यम्

विषधर ||‍ पुंस्त्री० विषं धरति धृ—अच् । १ सर्पे अमरः स्त्रियां ङीष् । “विषधरविषमं वनं भविता” उद्भटः ।


शब्दकल्पद्रुमः

विषधरः || पुं, (धरतीति । धृ + अच् । विषस्य धरः ।)
सर्पः । इत्यमरः ॥ (यथा, गीत- गोविन्दे । १ । १९ । “कालियविषधरगञ्जनजनरञ्जन ॥” स्त्रियां विषधरी । यथाह कश्चित् । “धावद्घोरविभावरी विषधरीभोगस्य भीमो मणिः ॥”)



Correction: