संस्कृत-शब्दकोशः

विषमच्छद विषमनयन

विषमज्वर

वाचस्पत्यम्

विषमज्वर ||‍ पु० विषम उग्रो ज्वरः । ज्वरभेदे । यथोक्तं भावप्र० “तत्र विषमज्वरस्य निदानकथनपूर्विकां संप्राप्तिमाह “दोषोऽल्पोऽहितसम्भूतो ज्वरो सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य वरोति विष० ज्वरम्” । अयमर्थः ज्ज्वरोतसृष्टस्य ज्वरण त्यक्तस्य । सन्निकृष्टहेतुमाह । दोषः अल्पः, ज्वरमुक्तस्य स्वलोऽपि । विप्रकृष्टहेतुमाह । अहि- तमाहारविहारादि तेन सम्भूतः संपूर्णोजातः अन्यत- मन्धातुं रसरक्तादिकम् प्राप्य दूषयित्वा पुनर्विषमज्वरं करोति ज्वरोतसृष्टस्य वेति वाशब्देनेति बोध्यते । प्रथमतो विषमज्वरो भवति यत उक्तम् । “आरम्भा- द्विषमो यस्तु” इत्यादिकम् रसादिकन्धातुं दूषयित्वाकं वि षमज्वरं करोति इत्यपेक्षयामाह “सन्ततं रसरक्तस्थः सतत रक्तधातुगः । दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः । मेदोगतस्तृतीयेऽह्नि अस्थिमज्जागतः पुनः । कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम्” । अन्तकमिव मारकत्वात् । अथ विषमज्वरस्य सामान्यं लक्षणमाह “यः स्यादनियतात् कालात् शीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमोज्वरः स विषमः स्मृतः” । यः स्यादनियतात् कालादित्यस्यायमर्थः । यथा वाति- कोज्वरः सप्त दिनानि, पैत्तिको दश दिनानि, श्लैष्मिको द्वादशदिनानि, दोषाणां प्राबल्यैर्वातिकश्चतुर्दशदिनानि, पैकिको विंशतदिनानि, श्लैष्मिकश्चतुर्विंशतिदिनानि स्यात् । तथा विषमज्वरो नियतं कालं व्याप्य न स्या- दित्यर्थः । शीतोष्णभ्यां गुणभ्यां स्यात् । “वेगतश्चापि विषमः कदाचिदतिवेगवान्” । कदाचिच्छान्तवेगः । वि- षमज्वरस्य भेदानाह “सन्ततः सततोऽन्येद्युस्तृतीयक चतुर्थकौ” । तत्र सन्ततस्य लक्षणमाह “सप्ताहं वा दशाहं वा द्वादशाहमथापि वा । सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते” । विकल्पो वातिकादिभेदात् । सन्तत्था नैरन्तर्य्येण अविसग्र्गी अपरित्यागो । ननु सुक्तानुबन्धित्वं विषमत्वमिति विषमलक्षणम् । तदत्र न घटत इति कथमयं विषमेषु पठ्यते” । घटत एवेति न दोषः । यत उक्तं चरकेण “विसर्गं द्वादशे कृत्वा दिवसे व्यक्तलक्षणम् । दुर्लभोपशमः कालं दीर्घमेवानु- पर्त्तते” इति । यत्तु खरनादेनोक्तम “ज्वराः पञ्च तु ये प्रोक्ताः पूर्वे सन्ततकादयः । चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः” इति तच्चिरेण त्यागाभिप्रायेण । सततकक्षणमाह “व्यहोरात्रे सततको द्वौ कालावनु- वर्त्तते” । द्वौ कालौ अहन्येककालं रात्रावेककालम् । यतो दोषाक्षागहोरात्ने प्रत्येकं द्वौ द्वौ प्रकोपकालौ । यत उक्तं वाग्मटेन “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः क्रमादिति” । अन्येद्युष्कलक्षणमाह । “अन्येद्युष्कस्त्र- होरात्रादेककालं प्रवर्त्तते” । एककालं दोषापेक्षया एककालमपि न द्वितीयं, प्रथमकाले हृद्येव दाषस्थितेः । तृतीयकचतुर्थकयीर्लक्षणमाह । “तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः” । तृतीयेऽह्नि इत्यागमनदिनं गृ- हीत्वा यत उक्तम् “दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः । दिनद्वयन्त्वतिक्रम्य यः स्यात् स हि चतु- र्थकः” इति । अत्राह वृद्धसुश्रुतः “कफस्थानविभागेन यथासङ्ख्यं करोति हि । सततान्येद्युष्कत्र्याख्य चतु- र्थकप्रलेपकान् । अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यत । दोष आमाशयं प्राप्य करोति विषमज्वरम्” । अयमर्थः आमाशयोरःकण्ठशिरःसन्धयः पञ्च कफ- स्थानानि एषु तिष्ठन् दोषो यथासङ्ख्यं संततादीन् करोति । तत्र आमाशये स्थितो दोषः सततं करोति द्वौ कालौ, अहोरात्रे कालद्वये दोषप्रकोपात् । हृदये स्थितो दोष आमाशयमागत्य अन्येद्युष्कं करोति एककालं नैकट्यादेकस्मिन्नेवाहोरात्रे दोष आमाशयमा- गत्य अन्येद्युष्कं करोति । तत्र द्वौ दोषप्रकोपकालौ एकस्मिन् काले हृदये तिष्ठत्यपरस्मिन्नामाशय इति । कण्ठेस्थितो दोषोऽहोरात्रात् हृदयमायाति । तृतीये दिने आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरं करोति एककालं न तु द्वौ कालौ स्वभावात् । एव- मेव शिरःस्थितो दोषः अहोरात्रात् कण्ठमायाति ततः पुनरहोरात्रात् हृदयमायाति चतुर्थे दिने आमाशयमागत्य स्वप्रकोपकाले चतुर्थकं ज्वरं करोति एककालन्नतु द्वौ कालौ स्वभावादेव । ननु दोषस्यागमन क्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ- दिवसयोर्ज्वरागमनम् । उच्यते । दोषो हि प्रकोप- समये वेगवत्तया लाघवात् स्वस्थानन्तु वेगदिन एव याति । यत आह “दोषः प्रकोपकाले हि वेगवत्त्वेन लाघवात् । वेगवासर एवायं स्वस्थानमधिगच्छति” । सन्धिषु स्थितः प्रलेपकं करोति । सन्धयश्चामाशयेऽपि सन्ति तेषु स्थितः प्रलेपकं सर्वदा करोति “निवृत्तः पुनरायाति विषमो नियते दिने । स्वमावः कारणं तत्र मन्थन्वे मुनिपुङ्गवाः” । स्वभावस्य कारणत्वे कफ- स्वानविभागनिरपेक्षाश्चतुर्थकादिविपर्य्यया अपि ज्वराः स्वस्वकाले प्रभवन्ति अधिशेते यथा मूमिं वीजं काले प्ररोहति । अधिशेते तथा धातून् दोषः काले प्रकुप्यति” । सुश्रुतोऽप्याह “स चापि विषमं देहं न कदाचित् प्रमु- ञ्चति । ग्लनिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते । येगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते । धात्वन्त- रेषु लोनत्वात् सौक्ष्म्यान्नैवोपलभ्यते” । द्विदोषोल्वणस्य तृतीयकस्य लक्षणमाह “कफपित्तात् त्रिकग्राही पृष्ठा- द्वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात् तृतीयकः” । त्रिकग्राही वेदनया त्रिकं गृह्णातीत्यर्थः । ननु कफपित्तात् त्रिकग्राही वेदनया त्रिकव्यापी त्रिकं तु वातस्थानं तत्कथं तद्गृह्णीतः पित्तकफौ अन्यस्थान- गत्वेन दुर्बलत्वात् दुर्बलौ च कथं वेगं कुरुतः, दोषाणां स्थाननियमः न तु कुपितानां तथा च सूश्रुतः “कुपितानां हि दोषाणां शरीरे परिधायति । यत्र सङ्गः स वैगु- ण्यात् व्याधिस्तत्रोपजायते” । एवमन्यस्थानगत्वेन चतुर्थको वाच्यः । वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवती- त्यर्थः । “ल्यव्लोपे कर्मण्यधिकरणे च” पा० सूत्रेण पञ्चमी । कफोल्वणस्य वातोल्वणस्य चतुर्थकस्यलक्षणमाह “चतु- र्थका दर्शयति स्वभावं द्विविधं ज्वरः । जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः । मध्यकायन्तु गृ- ह्णाति पूर्वं यस्तु स पित्तजः । विषमज्वर एवान्यश्चतु- र्थकविपर्य्ययः” । श्लैष्मिकः श्लेष्मोल्वणः । तथा अनि- लसम्भवो वातोल्वणः सन्ततादीनां त्रिदोषजत्वम् । यत उक्तं चरके “प्रायशः सन्निपातेन पञ्च स्युर्विषमज्वराः” इति । प्रायशोग्रहणादे कदोषजा द्विदोषजा अपि भव- न्तीति जैज्जटः । पूर्वं प्रथमं जङ्घाभ्याम् व्यथया जङ्घे व्याप्य पश्चात् सकलं शरीरं व्याप्नोति । एव- मुल्वखवातजातः शिरणः पूर्वं व्यथया शिरोव्याप्य स- कलं शरीरं व्याप्नोनीत्यर्थः । “विषमज्वर एवान्थश्चातु- र्थकविपर्य्ययः । अस्थिमज्जगतो दोषश्चातर्थकविपर्य्ययः । जायते भिषजा ज्ञेयो विषमज्वर एव सः” । अन्थः सन्त- तादिपञ्चकादपरः चातुर्थकविपर्थ्ययाख्यो ज्वरः सोऽपि विषमज्वर एव वैद्येन ज्ञातव्यः । स किं धातुस्थ इत्य- पेक्षयामाह अस्थीत्यादि । तस्य चातुर्थकविपर्य्ययस्य लक्षणमाह “स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमु- चति” । चतुर्थकविपर्य्ययः इत्युपलक्षणम् सन्ततादि- विपर्य्ययोऽपि बोद्धव्यः । यथा अहोरात्रे द्वौ कालौ सुतति शेषं सर्वमहोरात्रं तिष्ठतीति सततविपर्य्ययः । अहोरात्रे एकखालं मुञ्चति शेषं सर्वमहोरात्रं तिष्ठति अन्येद्युष्कविपर्य्ययः मध्ये एकं दिनं ज्वरयति आ दाव न्ते च मुञ्चतीति तृतीयकविपर्य्ययः । एते विषमज्वरोपल- क्षकाः अन्ये रात्रिज्वरादयोऽपि विषमज्वरा बोद्धव्याः यथा “समौ वातकफो यस्य क्षोणपित्तस्य देहिनः । रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्य तु” । प्रायः बाहुल्येन । सन्ततादीनां शीतपूर्वत्वे दाहपूर्वत्वे च हेतु- माह “त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्व- रम् । तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति चं । शीतं शीतसहितम् । प्रशान्तयोः प्रशान्तवेगयोः अन्तः अभ्यन्तरे । “करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च । तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः” । अन्ततः हस्तपादादितः । शीतादिदाहादिज्वरयोः त्रिदोषजत्वमाह “द्वावेतौ दाहशीतादिज्वरौ संसर्गजो स्मृतौ । दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः” । संसर्गजौ मान्निपातिकौ । कष्टः कष्टसाध्यः । विषम- ज्वरविशेषमाह “विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यव- स्थिते । तेनार्द्धं शीतलं देहमूर्द्धमुष्णं प्रजायते” । अन्नरसे विदग्धे आहारजे रसे दुष्टे, देहे श्लेष्मपित्ते व्यवस्थिते दुष्टे स्थिते । तेन हेतुना शीतलं कफेन उष्णं पित्तेन, अर्द्धत्वं चार्द्धनारीश्वराकारेण नरसिंहा कारेण वा । “काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यव- स्थितः । तेनोष्णत्वं शरीरस्व शीतत्थं हस्तपादयोः” । अन्ते हतपादादौ “काये श्लेष्मा यदा दुष्टः पित्त चान्ते व्यवस्थितम् । शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः” । विषमज्वरविशेषस्य प्रलेपकस्य लक्षण- माह “प्रलिपन्निव गात्राणि घर्मेण गौरवेण च । मन्द- ज्वरविलेपी च स शींतः स्यात् प्रलेपकः” । गोरवेण उपलक्षितः । मन्दज्वरविलेपी मन्दवेगस्य विलेपः सदा सम्बन्धोऽस्यास्तीति मन्दज्वरपिलेपी । अथं विषमज्वरः । तथा च सुश्रुतः “प्रलेपसाख्यो विषमः प्रायशः क्लेशशोषिणाम् । ज्वराश्च विषमाः सर्वे प्रायः क्लेशाय शोषिणाम्” ।


शब्दकल्पद्रुमः

विषमज्वरः || पुं, (विषमः ज्वरः ।)
ज्वररोगबिशेषः । तस्य निदानकथनपूर्ब्बिकां संप्राप्तिमाह । “दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥” अयमर्थः । ज्वरोत्सृष्टस्य ज्वरेण त्यक्तस्य । सन्निकृष्टं लक्षणमाह । दोषः अल्पः ज्वरमुक्त्या स्वल्पोऽपि । विप्रकृष्टं हेतुमाह । अहित- माहारविहारादि तेन सम्भूतः संपूर्णो जातः अन्यतमं धातुं रसरक्तादिकं प्राप्य दूषयित्वा पुनः विषमज्वरं करोति । ज्वरोत्सृष्टस्य वेति वाशब्देनेति बोध्यते । प्रथमतोऽपि विषमज्वरो भवति । यत उक्तम् । आरम्भाद्विषमो यस्त्वि- त्यादिकम् । धातुं दूषयित्वा कं विषमज्वरं करोतीत्यपेक्षायामाह । “सन्ततं रसरक्तस्थः सततं रक्तधातुगः । दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ॥ मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः । कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ॥” अन्तकं अन्तकमिव मारकत्वात् ॥ * ॥
विषम- ज्वरस्य सामान्यलक्षणमाह । “यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥” यस्त्वनियतात् कालात् स्यादित्यस्यायमर्थः । यथा, वातिको ज्वरः सप्तदिनानि पैत्तिको दश दिनानि श्लैष्मिको द्वादश दिनानि दोषाणां प्राबल्ये वातिकश्चतुर्द्दश दिनानि पैत्तिको विंशतिदिनानि श्लैष्मिकश्चतुर्व्विंशतिदिनानि स्यात् तथा विषामज्वरो नियतं कालं व्याप्य न स्यादित्यर्थः । शीतोष्णाभ्यां गुणाभ्यां स्यात् । “वेगतश्चापि विषमः कदाचिदपि वेगवान् ॥” कदाचिदपि शान्तवेगः ॥ विषमज्वरस्य भेदा- नाह । “सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।” तत्र सन्ततस्य लक्षणमाह । “सप्ताहं वा दशाहं वा द्बादशाहमथापि वा । सन्तत्या योऽविसर्गी स्यात् सन्ततः स निग- द्यते ॥” विकल्पो वातिकादिभेदात् । सन्तत्या नैरन्त- र्व्येण अविसर्गी अपरित्यागी ॥ ननु मुक्तानु- बन्धित्वं विषमत्वमिति विषमलक्षणं तदत्र न घटत इति कथमयं विषमेषु पट्यते । घटत एव इति न दोषः । यत उक्तं चरकेण । “विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम् । दुर्ल्लभोपशमः कालं दीर्घमप्यनुवर्त्तते ॥” यत्तु खरनादः । “ज्वराः पञ्च च ये प्रोक्ताः पूर्ब्बं सततकादयः । चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः ॥” इति । तच्चिरेण त्यागाभिप्रायेण ॥ * ॥
सतत- लक्षणमाह । “अहोरात्रे सततको द्बौ कालावनुवर्त्तते ।” द्वौ कालौ अहन्येककालं रात्रावेककालम् । यतो दोषाणामहोरात्रे प्रत्येकं द्वौ द्वौ प्रकोप- कालौ । यत उक्तं वाग्भटेन । “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः क्रमात् ।” इति ॥ अन्येद्युष्कलक्षणमाह । “अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ।” एककालं दोषापेक्षया एककालमपि द्वितीयं प्रथमकाले हृद्येव दोषस्थितेः ॥ * ॥
तृतीयक- चतुर्थकयोर्लक्षणमाह । “तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥” तृतीयेऽह्नि इत्यागमनदिनं गृहीत्वा । यत उक्तम् । “दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः । दिनद्वयं त्वतिक्रम्य यः स्यात् स हि चतुर्थकः ॥” इति ॥ अत्राह वृद्धसुश्रुतः । “कफस्थानविभागेन यथासंख्यं करोति हि । सततान्येद्युष्कत्र्याख्यचतुर्थकप्रलेपकान् ॥ अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रप- द्यते । दोष आमाशयं प्राप्य करोति विषमज्वरम् ॥” अयमर्थः । आमाशयोरः कण्ठशिरःसन्धयः पञ्च कफस्थानानि एषु तिष्ठन् दोषो यथासंख्यं सततादीन् करोति । तत्रामाशये स्थितो दोषः सततं करोति द्वौ कालौ अहोरात्रे कालद्बये दोषप्रकोपात् । हृदये स्थितो दोष आमाशय- मागत्य अन्येद्युष्कं करोति । एककालं नैकद्या- देकस्मिन्नेवाहोरात्रे दोष आमाशयमायाति । तत्र द्वौ दोषकोपकालौ एकस्मिन् काले हृदये तिष्ठत्यपरस्मिन्नामाशय इति । कण्ठे स्थितो दोषोऽहोरात्रात् हृदयमायाति । तृतीये दिने आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरं करोति एककालं न तु द्वौ कालौ स्वभावात् । एवं शिरःस्थितो दोषोऽहोरात्रात् कण्ठ- मायाति । ततः पुनरहोरात्रा द्धृदयमायाति चतुर्थदिने आमाशयमागत्य स्वप्रकोपकाले चतुर्थकं ज्वरं करोति । एककालं न तु द्वौ कालौ स्वभावादेव ॥ * ॥
ननु दोषस्यागमन- क्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ- दिवसयोर्ज्वरागमनम् । उच्यते । दोषो हि प्रकोपशमये वेगवत्तया लाघवात् स्वस्थानन्तु वेगदिन एव याति । यत आह । “दोषः प्रकोपकाले हि वेगवत्त्वेन लाघवात् । वेगवासर एवायं स्वस्थानमभिगच्छति ॥” सन्धिषु स्थितः प्रलेपं करोति । सन्धयश्चामा- शयेऽपि सन्ति तेषु स्थितः प्रलेपकं सर्व्वदा करोति ॥ * ॥
“निवृत्तः पुनरायाति विषमो नियते दिने । स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ॥” स्वभावस्य कारणत्वे कफस्थानविभागनिरपेक्षा- श्चतुर्थकादिविपर्य्यया अपि ज्वराः स्वस्य काले भवन्ति । “अधिशेते यथा भूमिं वीजं काले प्ररोहति । अधिशेते तथा धातून्दोषः काले प्रकुप्यति ॥” सुश्रुतोऽप्याह । “स चापि विषमो देहं न कदाचित् प्रमुञ्चति । ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ॥ वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते । धात्वन्तरस्थो लीनत्वात् सौक्ष्मान्नैवोपलभ्यते ॥” द्विदोषोस्त्वणस्य तृतीयकस्य लक्षणमाह । “कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृती- यकः ॥” त्रिकग्राही वेदनया त्रिकं गृह्णाति इत्यर्थः ॥ * ॥
ननु कफपित्तात्त्रिकग्राही वेदनया त्रिकव्यापी त्रिकस्य वातस्थानं तत्कयं तद्गृहीतौ पित्त- कफौ अन्यस्थानगत्वेन दुर्ब्बलत्वेन दुर्ब्बलौ वेगं कुरुते । उच्यते दोषाणां स्थाननियमः न तु कुपितानाम् । तथा च सुश्रुतः । “कुपितानां हि दोषाणां शरीरे परिधावति । यत्र सङ्गः स वैगुण्याद्ब्याधिस्तत्रोपजायते ॥” एवं अन्यस्थानगत्वेन चतुर्थकोऽपि वाच्यम् । वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवति इत्यर्थः । यव्लोपकर्म्मण्यधिकरणे चेति सूत्रेण पञ्चमी ॥ * ॥
कफोल्वणस्य वातोल्वणस्य च चतुर्थकस्य लक्षणमाह । “चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः । जङ्घाभ्यां श्लैष्मिकः पूर्ब्बं शिरसोऽनिलसंभवः ॥” श्लैष्मिकः श्लेष्मोल्वणः तथा अनिलसंभवः वातो- ल्वणः । सन्ततादीनां त्रिदोषजत्वात् । उक्तञ्च चरकेण । “प्रायशः सन्निपातेन पञ्च स्युर्व्विषमज्वराः ।” इति । प्रायशो ग्रहणादेकदोषजाः द्विदोषजा अपि न भवन्ति इति जैज्जटः ॥ पूर्ब्बं प्रथमं जङ्घाभ्यां व्यथया जङ्घे व्याप्य पश्चात् सकलं शरीरं व्याप्नोति । एवमुल्वणवातजातः शिरसः पूर्ब्बं व्यथया शिरो व्याप्य सकलं शरीरं व्याप्नोती- त्यर्थः । “विषमज्वर एवान्यश्चतुर्थकविपर्य्ययः । अस्थिमज्जगतो दोषश्चतुर्थकविपर्य्ययः ॥” अन्यः सन्ततादिपञ्चकादपरश्चतुर्थकविपर्य्ययाख्यो ज्वरः सोऽपि विषमज्वर एव । स किंधातुस्थ इत्यपेक्षायामाह अस्थीत्यादि । तस्य चतुर्थक- विपर्य्ययस्य लक्षणमाह । “स मध्ये ज्वरयत्यह्नीआद्यन्ते च विमुञ्चति ॥” चतुर्थकविपर्य्यय इत्युपलक्षणम् । सततादि- विपर्य्ययोऽपि बोद्धव्यः । यथा, अहोरात्रे द्वौ कालौ मुञ्चति शेषं सर्व्वमहोरात्रं तिष्ठतीति सततविपर्य्ययः । अहोरात्रे एकं कालं मुञ्चति शेषं सर्व्वमहोरात्रं तिष्ठति इत्यन्येद्युष्कविप- र्य्ययः । मध्ये एकं दिनं ज्वरयति आदावन्ते च दिने मुञ्चति इति तृतीयकविपर्य्ययः । एते विषमज्वरा उपलक्षकाः अन्ये रात्रिज्वरा- दयोऽपि विषमज्वरा बोद्धव्याः ॥ यथा, —
“समौ वातकफौ यस्य क्षीणपित्तस्य देहिनः । रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्यतु ॥” प्रायो बाहुल्येन ॥ * ॥
सन्ततादीनां शीत- पूर्ब्बत्वे दाहपूर्ब्बत्वे च हेतुमाह । “त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरम् । तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च ॥” शीतं शीतसहितं प्रशान्तयोः प्रशान्तवेगयोः । अन्तः अभ्यन्तरे । “करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च । तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ॥” अन्ततः हस्तपादादितः ॥ * ॥
शीतादिदाहा- दिज्वरयोस्त्रिदोषजत्वमाह । “द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ । दाहपूर्ब्बस्तयोः कष्टः सुखसाध्यतमोऽपरः ॥” संसर्गजौ सान्निपातिकौ । कष्टः कष्टसाध्यः ॥ * ॥
विषमज्वरविशेषानाह । “विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते । तेनार्द्धं शीतलं देहं चार्द्धमुष्णं प्रजायते ॥” अन्नरसे विदग्धे आहारजे रसे दुष्टे श्लेष्मपित्ते च व्यवस्थिते दुष्टे स्थिते तेन हेतुना शीतलं कफेन उष्णं पित्तेन अर्द्धत्वं चार्द्धनारीश्वरा- कारेण नरसिंहाकारेण वा । “काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः । तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ॥” अन्ते हस्तपादादौ । “काये श्लेष्मा यदा दुष्टः पित्तश्चान्ते व्यवस्थितः । शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः ॥” विषमज्वरविशेषस्य प्रलेपकस्य लक्षणमाह । “प्रलिम्पन्निव गात्राणि घर्म्मेण गौरवेण च । मन्द्रज्वरविलेपी च सशीतः स्यात् प्रलेपकः ॥” गौरवेण उपलक्षितः । मन्दज्वरविलेपी मन्द- वेगस्य ज्वरस्य सदा सम्बन्धोऽस्यास्तीति मन्द- ज्वरविलेपी अयं विषमज्वरः । यथा च सुश्रुतः । प्रलेपकाख्यो विषमः प्रायः क्लेशाय शोषिणा- मिति ॥ * ॥
अथ विषमज्वराणां सामान्य- चिकित्सा । “ज्वराश्च विषमाः सर्व्वे सन्निपातसमुद्भवाः । अथोल्वणस्य दोषस्य तेषु कार्य्यं चिकित्सितम् ॥ विषमेष्वय कर्त्तव्यमूर्द्ध्वं वाधश्च शोधनम् । स्निग्धोष्टैरन्नपानैश्च शमयेद्विषमज्वरम् ॥ * ॥
कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी । पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ॥ निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ । किराततिक्तममृता चन्दनं विश्वभेषजम् ॥ गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः । कषायाः शमयन्त्याशु पञ्च पञ्चविधज्वरम् ॥” कालिङ्गकः इन्द्रयवः । वत्सकः कुटजः । चन्दन- मत्र रक्तचन्दनम् । कवायाः पञ्च । पञ्चविधं सन्ततसततान्येद्युष्कतृयीयचतुर्थकरूपम् ॥ * ॥
“महाबलामूलमहौषधाभ्यां क्वाथो निहन्याद्विषमज्वरं हि । शीतं सकम्पं परिदाहयुक्तं विनाशयेत् द्वित्रिदिनं प्रयोगात् ॥ * ॥
क्षुद्रामृतानागरपुष्कराद्यैः कृतः कषायः कफमारुतोत्तरे । सश्वासकासारुचिपार्श्वरुग्ज्वरे सदा त्रिदोषप्रभवेऽपि शस्यते ॥” * ॥
क्षुद्रादि ॥ * ॥
“क्षुद्रामृतापद्मकचन्दनैर्घनै- र्भूनिम्बपर्पटपटोलपौष्करैः । तिक्ताकलिङ्गपिचुमर्द्दवासकै- र्महौषधं भार्गिवितुन्नकैः समैः ॥ शृतं पिबेत् पूर्ब्बदिनं कषायं निहन्ति वृद्धज्वरमुग्रशीतम् । सश्वासमूर्च्छारुचिदाहमुल्वणं तृषां वमिं कासमतीव शूलकम् । आनाहहिक्कादिषु सन्निपाते गलग्रहे तन्द्रिशिरोरुहायाम् ॥” बृहत्क्षुद्रादिविषमज्वरे ॥ * ॥
“मुस्तामलकगुडुचीविश्वौषधकण्टकारिक्वाथः । पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति ॥ * ॥
तिलतैललवणयुक्तकल्को लशुनसेवितः प्रातः । विषमज्वरमपहरते वातव्याधीनशेषांश्च ॥ * ॥
कालाजाजी नु सगुडा विषमज्वरनाशिनी । मधुनाढ्याभया लीढा हन्त्याशुविषमज्वरान् ॥” कालाजाजी मगरैला इति लोके । सा च किञ्चिद्भृष्टा गुडतुल्या कर्षमिता भक्षणीया । * “पीतो मरीचचूर्णेन तुलसीपत्रजो रसः । द्रोणपुष्पीभवो वापि निहन्ति विषम- ज्वरान् ॥ * ॥
अमृतायाः शतं चूर्णं वाससा परिशोधितम् । पृथक् षोडशभागाः स्युर्गुडमाक्षिकसर्पिषाम् ॥ यथाग्नि भक्षयेदेतन्नरो हितमिताशनः । नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च ॥ न ज्वरा विषमा नैव मेहनानिलरक्तकम् । न च नेत्रगता रोगाः परमेतद्रसायनम् ॥ मेघाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान् । जीवद्वर्षशतं साग्रं यथैवादितिजस्तथा ॥” गुडूचीकल्कः ॥ * ॥
अथान्नमाह । “तक्रमांसं पयोमांसं दधिमांसमथापि वा । माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात् ॥” * अग्निवेशश्च । “सुरा समण्डा पानाय भोजने चरणायुधाः । तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे ॥ चरणायुधा गृहकुक्कुटाः । कुक्कुटा वनकुक्कुटाः । विष्किराः वर्त्तिकालावविगिरचकोराद्याः ॥ * ॥
अथ सन्ततादीनां विशिष्टा चिकित्सा । “त्रायन्तीकटुकानन्तासारिवाभिः शृतं जलम् । सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥” अनन्ता दुरालभा ॥ * ॥
“पटोलाब्दविषातिक्तासारिवाभिः शृतं जलम् । सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥” वृषा बृहद्दन्ती एरण्डवत्पत्रविटपा तदलाभे दन्ती च ग्राह्या समानगुणत्वात् ॥ * ॥
“पटोलेन्द्रयवानन्तापथ्यारिष्टामृताजलम् । क्वथितं तज्जलं पीतं ज्वरं सन्ततकं जयेत् ॥” अनन्ता सारिवा । अरिष्टः निम्बः । जलं बालकम् ॥ * ॥
“द्राक्षापठोलनिम्बाब्दशक्राह्वत्रिफलाशृतम् । जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये ॥” शक्राह्वः इन्द्रयवः ॥ * ॥
“कर्म्मसाधारणं त्यक्त्वा तृतीयकचतुर्थकौ । भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः ॥ उशीरं चन्दनं मुस्तं गुडूचीधान्यनागरम् । अम्भसा क्वथितं पेयं शर्करामधुयोजितम् ॥ * ॥
ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते । अपामार्गजटां कट्यां लोहितैः स प्ततन्तुभिः । बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ॥ * ॥
स्थिरातामलकीदारुशिवावृषमहौषधैः । सितामधुयुतः क्वाथश्चतुर्थकहरः परः ॥” स्थिरा शालिपर्णी । तामलकी भूधात्री । शिवा हरीतकी । वृषो वासा ॥ * ॥
“अगस्तिपत्रस्य रसेन नस्यं निहन्ति चातुर्थकमुग्रवीर्य्यम् । शिरीषपुष्पस्य निशाद्वयस्य कल्केन वा तत्घृतसंयुतेन ॥” तत् नस्यम् ॥ * ॥
“ज्वरस्य वेगकालञ्च चिन्तयन् ज्वर्य्यते तु यः । तस्येष्टैरद्भुतैर्व्वापि विषयैर्नाशयेत् स्मृतिम् ॥ सन्ततं विषमञ्चापि क्षीणस्य सुचिरोत्थितम् । ज्वरं सभोजनैः पथ्यैर्ज्वरघ्नैः समुपाचरेत् ॥” * ॥
सततादिविपर्य्ययाणां विषमज्जराणां चिकित्सा सततादीनामिव कर्त्तव्या । “शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम् । दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम् ॥ आच्छादनैर्ब्बहुतरैर्गुरुभिः कम्बलादिभिः । तूलवत्या महाशीतं शीतादिज्वरिणो हरेत् ॥” तूलवती तुलाई इति लोके ॥ “तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी । युवतिर्गाढमालिङ्गेत्तेन शीतं प्रशाम्यति ॥ कान्ताङ्गसङ्गसंजातं तस्य शीते निवारिते । प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत् स्त्रियम् ॥ ततो दाहे तु संजाते पत्रैरेरण्डसम्भवैः । शीतलैर्धारितैर्द्देहे दाहं तस्यापनोदयेत् ॥ तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि । नवमांसञ्च तुत्थं स्यात् मर्द्दयेत् कन्यकाद्रवैः ॥ तत् तु संशुष्कमुपलैर्वन्यैर्गजपुटैः पचेत् । शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम् ॥ प्रभाते भक्षयेत्तेन याति शीतज्वरक्षयम् । वान्तिर्भवति कस्यापि कस्यापि न भवत्यपि ॥ एकेन दिवसेनैव शीतज्वरहरं परम् । मध्याह्नसमये पथ्यं शिखरिणी भक्तकं च ॥” * ॥
शीतज्वरे भूतभैरवचूर्णम् । “एला जातीफलं व्योषत्रिफलाजीरकं घनः । सविडङ्गं सितायुक्तं चूर्णं शीतज्वरापहम् ॥ कायस्थानाकुलीतिक्तावयस्थापुरचोरकैः । सहदेवावचाकुष्ठैः शीतघ्नैर्धपलेपनैः ॥ एतैरेवौषधैः पिष्टैर्लवणक्षारसंयुतैः । साम्लैर्व्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम् ॥” कायस्था हरितकी । नाकुली रास्ना । भेदसाई इति लोके । वयस्था गुडूची । पुरो गुग्गुलुः । चोरकः । भटिउर । तदलाभे गटिवन । सह- देवा बृहद्वला । क्षारो यवक्षारः । काय- स्थादिधूपं लेपनं तैलञ्च ॥ “एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत् । दाहादिज्वरिणो देहे तानि पत्राणि धारयेत् ॥ तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति । दाहे शान्ते यदा शैत्यं तच्च युक्त्या निवारयेत् ॥ जघनचक्रचलन्मणिमेखला सरसचन्दनचन्द्रविलेपना । वनलतेव तरुं परिवेष्टयेत् प्रबलदाहनिपीडितमङ्गना ॥” चन्द्रः कर्पूरः । “तदङ्गसङ्गसंजातशैत्यैर्द्दाहे निवारिते । प्रह्लादश्चास्य विज्ञाय तां स्त्रीमपनयेत् पुनः ॥ * ॥
सुवर्च्चिकानागरकुष्ठमूर्व्वा- लाक्षानिशालोहितयष्टिकाभिः । सिद्धं हरेत् षड्गुणतक्रपङ्कं तैलं ज्वरं दाहसमन्वितञ्च ॥” षट्तक्रतैलम् ॥ * ॥
“रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णावला लाक्षासैन्धवसारिवामधुरसादेवद्रुरोहीतकैः । सोशीराम्बुधिफेनरौहिषजलैस्तैलं पचेत् षड्- गुणे तक्रेतच्छमयेज्ज्वरं दृढतरं दाहादिशीतादि- कम् ॥” चन्दनमत्र श्वेतम् । मधुरसा मूर्व्वा । रोही- तकः रोहिणि इति लोके । रौहिषं रोहिस इति तृणविशेषः । जलं बालकम् । महाषट्- तक्रतैलम् ॥ * ॥
“पद्मकोत्पलकह्लारमृणालविषपौष्करैः कुमुदोशीरमञ्जिष्ठापद्मगैरिककट्फलैः ॥ सारिवाद्वयलोध्राब्दक्षीरीखर्ज्जुरमस्तकैः । धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः ॥ लाक्षारसपयः शुक्लमस्तुभिः सह काञ्जिकैः । पक्वतैलमिदं त्वच्यं दाहज्वरहरं परम् ॥” लाक्षारसादिः पृथक् तैलतुल्यः पद्मकादि- तैलम् ॥ * ॥
“प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम् । रुद्रजटा गोशृङ्गं विडालविष्ठोरगस्य निर्म्मोकः । मदनफलभूतकेश्यौ वंशत्वग्रुद्रनिर्म्माल्यम् ॥ धृतयवमयूरचन्द्रच्छगलकरोमाणि सर्षपाः सवचाः । हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्र- संपिष्टाः ॥ धूपनविधिना शमयन्त्येते सर्व्वान् ज्वरान्नियतम् । ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः ॥” रुद्रजटा जटाधारी । भूतकेशी जटामांसी । रुद्रनिर्म्माल्यं रुद्रनिर्म्माल्यपुष्पादि । मयूरचन्द्रः मयूरपुच्छचन्द्रकम् । माहेश्वरो धूपः ॥ * ॥
“सोमं सानुचरं देवं समातृगणमीश्वरम् । पुजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात् ॥” सोमं उमादिसहितम् । सानुचरं नन्द्यादिगण- सहितम् । प्रयतः पवित्रः ॥ * ॥
“विष्णुं सहस्रमूर्द्धानं चराचरपतिं विभुम् । स्तुवन्नामसहस्रेण ज्वरान् सर्व्वान् व्यपोहति ॥” सहस्रमूर्द्धानमिति सहस्रशीर्षेत्यादि वेदाभि- हितम् । नामसहस्रेण भारतोक्तेनेत्यर्थः ॥ * ॥
ज्वरस्यापि देवतात्वात् पूजा कार्य्या । यत आह विदेहः । “तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः । श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ॥” तीर्थं ऋषिजुष्टं जलम् । आयतनं देवाधिष्ठितं पुरुषोत्तमक्षेत्रश्रीशैलादि ॥ * ॥
“निम्बपत्रं वरा व्योषं यवानी लवणत्रयम् । क्षारो दिग्वह्निरामेषुत्रिनेत्रक्रमशोऽंशकाः ॥ सर्व्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः । एकाहिकं द्व्यहिकञ्च तथा त्रिदिवसज्वरम् ॥ चातुर्थिकं महाघोरं सन्ततं सततं हि वा । धातुस्थञ्च त्रिदोषोत्थं ज्वरं हन्ति च मान- वम् ॥” निम्बादि चूर्णम् । इति विषमज्वराधिकारः ॥ इति भावप्रकाशः ॥



Correction: