वाचस्पत्यम्
विषमशिष्ट || न० विषमं शिष्टं शासनम् । अनुचितशासने ।
शब्दकल्पद्रुमः
विषमशिष्टः || पुं, दोषविशेषः । स च अनुचित- शासनरूपः । महद्वैषम्यम् । यथा, अत्र कामत एव चान्द्रायणतप्तकृच्छ्रयोर्विषमशिष्टत्वेन इच्छा- विकल्पासम्भवात् कामतश्चान्द्रायणं अकामत- स्तप्तकृच्छ्रम् । इति प्रायश्चित्ततत्त्वम् ॥