संस्कृत-शब्दकोशः

विषमीय विषमृत्यु

विषमुष्टि

वाचस्पत्यम्

विषमुष्टि ||‍ पु० विषं मुष्णाति मुष—क्तिच् । क्षुपभेदे (विषदोडि) राजनि०


शब्दकल्पद्रुमः

विषमुष्टिः || पुं, क्षुपविशेषः । विषदोडि इति कड्सिङ्गे इति च हिन्दीभाषा । तत्पर्य्यायः । केशमुष्टिः २ सुमुष्टिः ३ रणमुष्टिकः ४ क्षुप- डोडमुष्टिः ५ । अस्य गुणाः । कटुत्वम् । तिक्त- त्वम् । दीपनत्वम् । कफवातकण्ठामयरक्तपित्ता- दिदाहनाशित्वम् । रुच्यत्वञ्च । इति राज- निर्घण्टः ॥



Correction: