वाचस्पत्यम्
विषमृत्यु || पु० विषात् विषदर्शनात् मृत्युरस्य । चकोरखगे जटा०
शब्दकल्पद्रुमः
विषमृत्युः || पुं, (विषेण तद्दर्शनमात्रेण मृत्युर्यस्य ।) जीवञ्जीवपक्षी । इति जटाधरः ॥ चकोर इति ख्यातः ॥