संस्कृत-शब्दकोशः

विषमृत्यु विषयाज्ञान

विषय

वाचस्पत्यम्

विषय ||‍ पु० विषिण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबध्नन्ति वा वि + षि—अच् । इन्द्रियगोचरे १ शब्दादौ २ देशे च अमरः । ३ भोगसाधने “विषयो द्व्यणु- कादिस्तु ब्रह्माण्डान्त उदाहृतः” । “सिन्धुहिमादि- र्विषयो मतः” । “प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः” भाषा० । “अत्र विषयः भोमसाधनं सर्वमेव हि कार्य्यमदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत् तदुपभोगं साक्षात्परम्परया जनयत्येव न हि वीजप्रयो- जनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादि- ब्रह्माण्डान्तं सर्वमेव विषयो भवतीत्यर्थः” सि० मुक्ता० । “विषिण्वन्ति विषयिणं बध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति विषयाः पृथिव्यादयः सुखादयश्च अस्मदा- दीनामविषयाश्च तन्मात्रलक्षणाः योगिनामूर्ध्वस्रो- तसां च विषयाः” सांख्य० त० कौ० । ४ नित्यसेविते अमरः । ५ अव्यक्ते ६ शुक्रे च अजयपालः । ७ कान्तादौ ८ उपभोम्ये शब्दरत्ना० ८ नियामके “विशब्दो हि निःशे- षार्थःसिनोतिर्बन्धनर्थकः । विशेषेण सिनोतीति विषयो ऽतो नियामकः” भट्टका० । ९ आरोपाश्रये “सारोपान्या तु यत्रोक्ता विषयो विषयी तथा । विषय्यन्तःकृते- ऽन्यस्मि। सा स्यात् साध्यवसानिका” काष्यप्र० । १० वि चारार्हवाक्ये अधिकरणावयवभेदे “विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति सिद्धान्तः शास्त्रेऽधि- करणं स्मृतम्” मीमांसा० ।


शब्दकल्पद्रुमः

विषयः || पुं, (“विषिण्वन्ति विषयिणं स्वेन रूपेण निरूपणीयं कुर्व्वन्ति ।” इति सांख्यतत्त्वकौमुदी । वि + षि + अच् ।)
चक्षुरादिग्राह्यः । स तु शब्दस्पर्शरूपरसगन्धरूपः । तत्पर्य्यायः । गोचरः २ इन्द्रियार्थः ३ ॥ देशः । (यथा, रघुः । ११ । १८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामभवदन्तकस्य तत् ॥”)
आशयः । इत्यमरः ॥ न्यायमते क्षित्यप्तेजो- वायूनां विषया यथा, —
“तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता । षड्विधस्तु रसस्तत्र गन्धोऽपि द्बिविधो मतः ॥ स्पर्शस्तस्यापि विज्ञेयो ह्यनुष्णाशीतपाकजः । नित्यानित्या च सा द्वेधा नित्या स्यादणु- लक्षणा ॥ अनित्या तु तदन्या स्यात् सवावयवयोगिनी । सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा । योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् । विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ॥ वर्णः शुक्लो रसस्पर्शौ जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वन्तु सांसिद्धिकमुदाहृतम् ॥ नित्यतादि प्रथमवत् किन्तु देहमयोबिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥ * ॥
स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकद्रवत्वन्तु नित्यतादि तु पूर्ब्बवत् ॥ इन्द्रियं नयनं वह्निस्वर्णादिर्विषयो मतः । * । अपाकजानुष्णाशीतस्पर्शस्तु पवने मतः ॥ तिर्य्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ब्बवन्नित्यताद्युक्तं देहव्यापि त्वगिन्द्रितम् ॥ प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥” इति भाषापरिच्छेदः ॥ विषय इति । भोगसाधनं विषयः । सर्व्वमेव हि कार्य्यं अदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया जनयत्येव नहि बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादिब्रह्माण्डान्तं सर्व्वमेव विषयो भवतीत्यर्थः । इति सिद्धान्तमुक्तावली ॥ * ॥
नित्यसेवितः । इति भरतधृताजयः ॥ अव्यक्तः । शुक्रः । इत्यप्यजयपालः ॥ जनपदः । इति मेदिनी ॥ कान्तादिः । इति शब्दरत्नावली ॥ नियामकः । यथा, —
“विशब्दो हि विशेषार्थः सिनोतेर्ब्बन्ध उच्यते । विशेषेण सिनोतीति विषयोऽतो नियांमकः ॥” इति भट्टकारिका ॥ * ॥
आरोपाश्रयः । यथा, —
“सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा । विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा- निका ॥” यथा, गौर्व्वाहीकः । इति काव्यप्रकाशे २ उल्लासः ॥ (“भोगसाधनं विषयः ।” इति तर्ककौमुदी ॥)



Correction: