शब्दकल्पद्रुमः
विषयायी || [न्] पुं, (विषयान् अयते प्राप्नोतीति । अय गतौ + णिनिः ।) राजा । वैषयिकजनः । इन्द्रियः । कामदेवः । विषयासक्तपुरुषः । इति मेदिनी । ने, २४६ ॥