संस्कृत-शब्दकोशः

विषयायिन् विषरूपा

विषयिन्

वाचस्पत्यम्

विषयिन् ||‍ न० विषयोऽस्त्यस्य इनि । १ ज्ञाने “विषयी यस्य तस्यैव” भाषा० २ इन्द्रिये च । ३ विषयासक्ते त्रि० मेदि० । ४ राज्ञि ५ कामदेवे पु० मेदि० । विषयिणो भावः तल् । विषयिता ज्ञाननिष्ठे विषयनिरूपिते पदार्थभेदे स्वरूप- सम्बन्धभेदे च स्त्री । सा च त्रिविधा विशेष्यनिरूपिता विशेष्यिता, विशेषणनिरूपिता प्रकारिता, संसर्गनिरूपिता संसर्गिता इति गदाधरादयः । गदाधरमते विषयितैव प्रतिबन्धकतावच्छेदिका । जगदीशमते विषयतैवेति भेदः ।


शब्दकल्पद्रुमः

विषयि || [न्] क्ली, (विषयाः सन्त्यस्येति । विषय + इनिः ।)
इन्द्रियम् । इति मेदिनी । ने, २११ ॥


शब्दकल्पद्रुमः

विषयी || [न्] त्रि, (विषयोऽस्त्यस्येति । इनिः ।)
विषयासक्तः । इति मेदिनी । ने, २११ ॥


शब्दकल्पद्रुमः

विषयी || [न्] पुं, (विषयोऽस्यास्तीति । इनिः ।)
नृपतिः । कामदेवः । वैषयिकः । इति मेदिनी । ने, २११ ॥ ध्वनिः । इत्यजयपालः ॥ आरोप्य- माणः । यथा, —
“विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा- निका ॥” विषयिणा आरोप्यमाणेन अन्तःकृते निगीर्णे- ऽन्यस्मिन् आरोपविषये सति सा स्यात् साध्य- वसानिका । इति काव्यप्रकाशः ॥



Correction: