शब्दकल्पद्रुमः
विषहरः || त्रि (हरतीति । हृ + अच् । विषस्य हरः ।)
गरलनाशकौषधादिः । यथा । ॐ ह्रँ जः । “मन्त्रोऽयं हरते रुद्र सर्व्ववृश्चिकगं विषम् । पिप्पली नवनीतञ्च शृङ्गवेरञ्च सैन्धवम् । मरीचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥ त्रिफला टङ्ककुष्ठञ्च चन्दनं घृतसंयुतम् । एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ॥ पारावतस्य चाक्षीणि हरितालं मनःशिला । एष योगो विषं हन्ति वैनतेय इवोरगान् ॥ सैन्धवं व्युषणं चूर्णं दधिमध्वाज्यसंयुतम् । वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ॥” इति गारुडे १८६ अध्यायः ॥