वाचस्पत्यम्
विषा || स्त्री विषं म्षिकविषं नाश्यत्वेनास्त्यस्याः अच् । (आतैच) १ अतिविषयायाम् अमरः २ वुद्धौ च उणादि०
शब्दकल्पद्रुमः
विषा || स्त्री अतिविषा । इत्यमरः ॥ बुद्धिः । इत्यु- णादिकोषः ॥ (अस्याः पर्य्यायो गुणाश्च यथा, “काश्मीरातिविषा श्वेता श्यामा गुञ्जा विषा- रुणा ॥” इति वैद्यकरत्नमालायाम् ॥ “विषात्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा । शुक्लकन्दा चोपविषा भङ्गुराघुणवल्लभा ॥ विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् । कफपित्तातिसारामविषकासवमिक्रिमीन् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)