वाचस्पत्यम्
विषाण || न० विष—बा० कानच् । १ पशुशृङ्गे २ हस्तिदन्ते ३ कुष्ठौषधे मेदि० । ४ वराहदन्ते हेमच० ५ क्षोरकाकोल्याम् ६ अजशृङ्ग्यां स्त्री मेदि० गौरा० ङीष् । सा च ७ वृश्चि- कालौ स्त्री राजनि० । ८ तिन्तिड्यां स्त्री शब्दच० ।
शब्दकल्पद्रुमः
विषाणं || क्ली कुष्ठौषधम् । पशुशृङ्गम् । (यथा, साहित्यदर्पणे । १० । “क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे विदधच्चेतो भोगविताने ॥”)
हस्तिदन्तः । इति मेदिनी । ने, ७७ ॥ (यथा, शिशुपालवधे । १ । ६० । “न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥”)
कोलदन्तः । इति हेमचन्द्रः ॥ (विशेषेण मद- दातरि, त्रि । यथा, ऋग्वेदे । ५ । ४४ । ११ । “विषाणं परिपानमन्ति ते ।” “विषाणं विशेषेण मदस्य दातारम् ।” इति तद्भाष्ये सायणः ॥)