विषाणी
विषादनी
विषाद
वाचस्पत्यम्
विषाद || पु० वि + षद—घञ् । १ अवसादे हेमच० २ जडतायाञ्च ।
शब्दकल्पद्रुमः
विषादः || पुं, (वि + षद + घञ् ।)
अवसादः । यथा, —
“जाड्यं मौर्ख्यं विषादोऽवसादः सादो विष- ण्णता ।” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । ११ । १ । “दध्मौ दरवरं तेषां विषादं शमयन्निव ॥”)