संस्कृत-शब्दकोशः

विषापह विषाभावा

विषापहा

वाचस्पत्यम्

विषापहा ||‍ स्त्री विषमपहन्ति अप + हन—ड । १ मुष्ककवृक्षे राजनि० । २ इन्द्रवारुण्यां ३ निर्विषायां राजनि० । ४ नागदमन्यां भावप्र० । ५ अर्कमूलायाञ्च (इशरमूल) ६ सर्षकङ्कालिकायां रत्नमा० ।


शब्दकल्पद्रुमः

विषापहा || स्त्री इन्द्रवारुणी । निर्व्विषा । इति राजनिर्घण्टः ॥ नागदमनी । इति भावप्रकाशः ॥ अर्कमूला । ईशुरमूल इति भाषा । इति शब्द- चन्द्रिका ॥ (अस्याः पर्य्यायो यथा, —
“अर्कपत्रा सुनन्दा स्यादर्कमूला विषापहा ॥” इति वैद्यकरत्नमालायाम् ॥)
सर्पकङ्कालिका । इति रत्नमाला ॥



Correction: