वाचस्पत्यम्
विषुवत् || न० विषु साम्यं दिवानिशोरत्रास्ति मतुप् मस्य वः । विषुवशब्दार्थे ।
शब्दकल्पद्रुमः
विषुवत् || क्ली विषुवम् । इत्यमरः ॥ (यथा, महा- भारते । ३ । १९९ । १२१ । “भवति सहस्रगुणं दिनस्य राहो- र्व्विषुवति चाक्षयमश्नुते फलम् ॥” व्यापकः । यथा, ऋग्वेदे । १ । ८४ । १० । “स्वादोरित्थाविषूवतो मध्वः पिबन्ति गौर्य्यः ॥” “विषुवत इत्थमनेन प्रकारेण सर्व्वेषु यज्ञेषु व्याप्तियुक्तस्य *** विषॢ व्याप्तौ अस्मा- दौणादिकः कुप्रत्ययः । ततो मतुप् ह्रस्वनुड्- भ्यांमतुबिति मतुप उदात्तत्वम् । अन्येषामपि दृश्यत इति संहितायां दीर्घः व्यत्ययेन मतोर्व्व- त्वम् ।” इति तद्भाष्ये सायणः ॥)