वाचस्पत्यम्
विष्किर || पुंस्त्री० विकिरति वि + कृ—क सुट्च । १ विहगे अमरः स्त्रियां ङीष् । २ विहगभेदे भावप्र० “वर्त्त- लालावविकिरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटा- द्याश्च विष्किराः समुदाहृताः । विकीर्य्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः । कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरः” । कुलिङ्गः (कएर) इति लोके । “वि- ष्किरा मधुराः शीताः कषायाः कटुपाकिनः । बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः” ।
शब्दकल्पद्रुमः
विष्किरः || पुं, (विकिरतीति । वि + कॄ श विक्षेपे + इगुपधेति कः । “विष्किरः शकुनिर्विकिरो वा ।” ६ । १ । १५० । इति सुट् । परिनिविभ्य इति षत्वम् ।)
पक्षी । इत्यमरः ॥ विष्किरास्त्रित्तिरि- मयूरकुक्कुटादयः । “लावाद्या वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः । लघवः शीतमधुराः सकषाया हिता नृणाम् ॥” इति राजवल्लभः ॥ * ॥
अथ विष्किराणां गणना गुणाश्च । “वर्त्तकालावविकिरकपिञ्जलकतित्तिराः । कलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः ॥ विकीर्य्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः । कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिराः ॥” कुलिङ्ग गववैया इति लोके । “विष्किरा मधुराः शीताः कषायाः कटु- पाकिनः । बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः ॥” इति भावप्रकाशः ॥ (“लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकावर्त्तक- नप्तृकावातीकचकोरकलविङ्कमयरक्रकरोपचक्र- कुक्कुटसारङ्गशतपत्रककुतित्तिरिकुरबालुकयव- लकप्रभृतयस्त्र्याहला विष्किरा लघवः शीत- मधुराः कषाया दोषशमनाश्च ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ * ॥
दर्व्वीकरान्तर्गत- सर्पविशेषः । यथा, —
“पुण्डरीको भ्रुकुटी मुखो विष्किरः पुष्पाभिकर्णो गिरिसर्प ऋजु- सर्पः श्वेतोदरो महाशिरा अलगर्द्धो आशी- विष इति ॥” इति च सुश्रुते कल्पस्थाने चतुर्थे- ऽध्याये ॥)